SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदय स्तुतिः अपरे पुनः समयिनः । चतुष्कोणं = चतुरस्रं [ = सुन्दरम् ] । बैन्दवम् इति चतुष्कोणबिन्द्वोः अंशसाम्यत्वात् बैन्दवम्; बिन्दुस्थानम् एव मूलस्थान - प्रतीकम् इति च भावयन्ति । चतुरस्र - पदस्य सुन्दरार्थे प्रयोगः, " बभूव तस्याश्चतुरस्रशोभि, वपुर्विभक्तं नवयौवनेन" [ कुमारसम्भवम् १।३७ ] इति । हे देवि ! त्वम् । तस्मिन् सुधासिन्धौ । सुरमणिगृहे = देवरत्नगृहे, चिन्ता - मणिगृहे इति भावः, चिन्तामणिः नाम देवीध्यानरूपम् अत्युत्तमरत्नं तन्मयगृहे इति तात्पर्यम् । तस्य चिन्तामणिगृहस्य समयसहिते इति विशेषणम् अत्र समयः नाम शिवशक्त्यैक्यस्य योगसमयः [ काल: ], तादृशसमयविशिष्टगृहे इति भावः । यतः इदं गृहं सगुणप्रपञ्चप्रवृत्तिहेतुक सूर्यशिशिरश्मीनाम् अगम्यत्वविशिष्टम् । तादृशरहस्यगृहे त्वं विहरसि इति देवीस्तुतिः ॥ ७॥ अथ देवीवासगृहनिरूपणम्- त्रिखण्डं ते चक्रं शुचिरविशशाङ्कात्मकतया मयूखैः षट्त्रिंशद्दशयुततया खण्डकलितैः । पृथिव्यादौ तत्त्वे पृथगुदितवद्भिः परिवृतं भवेन्मूलाधारात्प्रभृति तव षट्चक्रसदनम् ||८| पाठान्तराणि - ( १ ) षट्त्रिंशत्त्रिशतयुतमाखण्ड ०; षट्त्रिंशच्छतयुततया । (२) भवेन्मूलाधारप्रभृति । हे देवि ! तव सृष्टिरूपं चक्रम् अग्नि-सूर्य-चन्द्रात्मकत्वेन त्रिधा विभक्तम् । अतः तेषाम् अग्न्यादीनां मयूखाः सर्वे मिलिताः, ये षष्ट्यधिकत्रिशतसंख्याकाः ते पुनः पृथिव्यादिमनोन्तषट्तत्त्वेषु विभक्ताः सन्तः ब्रह्माण्डप्रतीकभूतपिण्डाण्डे मूलाधारादिषट्चक्ररूपसदने प्रतिभान्ति । तादृशं तव वासगृहम् इति देवीवासगृह For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy