SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्र० ४ www.khatirth.org यस्यासौ तथा तं । हे अम्बु जल । धनं राति ददाति धनरा क्विप् तां धनरां धनदायिकां । उदासे उत्पाटितवान् उत्पूर्वोऽसू क्षेपणे परोक्षा ए। बत । हे बुधनराः पण्डितमनुष्याः ! सदा नित्यं जिनवरागमं जिनेन्द्रसिद्धान्तं सेवत मुदा हर्षेण ॥ ९४ ॥ का दुरितास दूषण - सान्त्वक्षतिभूमिरिति कृते प्रश्ने । यत्तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥ ९५|| अव० - "कामलालसामहेला" समवर्णप्रश्नोत्तरं । मलो दुरितं, आलं अविद्यमानदूषणं, साम समतां हन्ति सामहः, मलश्च आलश्च सामहश्च ते तथा तेषामिला भूमिः का ? इति प्रश्नः । अथोत्तरं - कामलालसा महेला मारलम्पटा स्त्री ॥ ९५ ॥ हंहो शरीर कुर्याः, किमनुकलं त्वं वयोबलविभाद्यैः ? | मदनरिपोर्टकीह-ग्जैनः कथमुपदिशति धर्मम् ? ९६ अव० - " जिनान्यजध्वंसदा" व्यस्तसमस्तः । जिनानि हानिं यानि वयोबलादिभिः । अजः कामस्तस्य ध्वंसं ददाति या साऽजध्वंसदा । जिनान् यजध्वं पूजयध्वं सदा नित्यम् ॥ ९६ ॥ विधत्से किं शत्रून् युधि नरपते वक्ति कमला ?, वराश्वीयं कीदृक् ? क्व च सति नृपाः स्युः सुमनसः ? । विहङ्गः स्यात्कीहरू ? क्व रजति रमा पृच्छति हर - प्रतीहारी ? भीरो किमिह कुरुषे ब्रूत मदनम् १९७ अव० – “विजये” गतागतचतुर्गतः । विजये विपूर्वी जि जये वर्तमाना ए, 'विपराभ्यां जेः' ( पा०१-३-१९ ) For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy