SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ www.kothahrth.org प्रश्नशतम् जिनवल्लभ-ला ___ अव०-"हलेवर्षयायस्तेम्भोदेहारस्तीतः” द्वादशपत्रमिदं पद्मं । हले लाङ्गले । हे हव क्रतो। हे हर्ष मुत् । हत्या ब्राह्मणादिघातेन । हे हय अश्व । हस्ते करे । हम्भो आमन्त्रणे । हदे पुरीपोत्सर्ग करोमि, हदि पुरीपोत्सर्गे इति ॥९ ॥ धातोः। हहा अयं दयाप्रकाशकः । हे हर शङ्कर । हस्ती गजो हतो विनाशितः । हले सखि वर्षति वृष्टिं कुर्वति आयस्ते विस्तीर्णे अम्भोदे (मेघे) हारस्तीतः आर्द्रभावं गतः॥४२॥ मधुरिपुणा निहते सति , दनुजविशेषे तदनुगताः किमगुः ।। अभिदधते च विदग्धाः, सत्कवयः कीदृशीर्वाचः ॥४३॥ अव०-"अमृतमधुराः” द्विर्गतजातिः। अमृत प्राणत्यागं कृतवान् , मधुर्दानवः आः खेदे। अमृतवन्मधुराः॥४३॥ ब्रूते पुमान मुरजिता रतिकेलिकोपे, सप्रश्रयं प्रणमता किमकारि का कम ? । दुःखी सुखाय पतिमीप्सति कीदृशं वा?, कामी कमिच्छति सदा रतये प्रयोगम् ? ॥४४॥ अव०-"नरनारीप्रियंकर"। हे नः पुरुष, अनारि नीता नृ नये इति धातुः, का?ई:श्रीः, कं? प्रियं प्रणयं (मीः) संपदादित्वात् क्विप् । के सुखं राति ददाति करःतं पुमांसं । नरश्च नारी च तयोः प्रीतिं करोति यःस तथा तं ॥४४॥ १ अत्र हलाशब्दस्य सखीवाचकत्वं न तु तां प्रति संवोधनवाचकत्वं तेन आमन्त्रणे “एदापः" इत्येत्त्वं यत्र तु संबोधनवाचकत्वं तत्र नैतत् यथा "हला संस्तरं सारयेतः” इत्यत्र । परं हलाशब्दष्टावन्तोऽपि सखीपयर्थः" इति व्याख्यासुधावचनादुभयं रम्यमेव. ॥ ९ ॥ For Private And Personale Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy