SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुनः कथंभूतं ? विदं विर्गमनं अत्र अर्थाच्चतुर्गतिभ्रमणकरणलक्षणं तत् द्यति खण्डयतीति विदस्तं विदं दुर्गतिविच्छेदनच्छे कमित्यर्थः । पुनः कथंभूतं ? कैवल्यकारं कैवल्यं मोक्षं करोतीति कैवल्यकारः मोक्षासंख्य सौख्यदायकमिति । पुनः कथंभूतं ? सुकुलं सुष्ठु कुलं यस्य सुकुलस्तं । सुकुलोत्पन्नत्वात् । सुष्ठु कुलमस्माद्वा सुकुलस्तं । अत एव यो जनो जिनाधिपं नमति स नीचकुले नोत्पद्यते इत्याशयः । पुनः कथंभूतं (यं) ? कुलं कु कुत्सितं लुनात्यपहरतीति कुलस्तं असद्वस्तुखण्डनकारकं । पुनः कथंभूतं ? कुलं कौ पृथिव्यां ल इवेन्द्र इव यः स कुलस्तं जगन्नायकतया भूतले सुरेश्वरतुल्यं, समृद्धत्वात्तेजोरूपभराच्चेति । यथैकाक्षरनाममाला - "कुः पृथिव्यां समाख्यातः, कुशब्दः कुत्सितेऽपि च ” इति ५ चन्द्रेन्दुकीर्ति सुमनोमनोमनो- वाञ्छाप्रदं सविनयं नयनयम् । ज्ञानखदाने धनदं नदं नदं, पार्श्वं भजेऽहं सकलं कलंकलम् ॥ ६ ॥ व्याख्या - पुनः कथंभूतं ? चन्द्रेन्दुकीर्ति चन्द्रः कर्पूरः, इन्दुश्चन्द्रः, चन्द्रेन्दुवत् कपूरपूरचन्द्रवत् कीर्तिर्यशो यस्य स चन्द्रेन्दुकीर्तिस्तं । पुनः कथंभूतं ? सुमनोमनोमनोवाञ्छाप्रदं सुष्ठु मनो येषां ते सुमनसः सज्जनाः पण्डिता वा तेषां | यानि मनांसि मानसानि सुमनोमनांसि तेषां या मनोवाञ्छा मनोरथास्ताः प्रददातीति सुमनोमनोमनोवाञ्छाप्रदस्तं । पुनः कथंभूतं ? नयनयं नयं नयाध्वानं नयति प्रापयति यः स नयनयस्तं नयमार्गप्रापकमित्यर्थः । अत्र बिन्दुच्युतिरपि । पुनः कथंभूतं ? ज्ञानस्वदाने धनदं ज्ञानं सर्वज्ञत्वं तद्रपं स्वं द्रव्यं तस्य दानं वितरणं ज्ञानस्वदानं तस्मिन् ज्ञानधनदाने धनदं श्रीदसदृशं । पुनः कथंभूतं ? नदं नो ज्ञानं तं ददातीति नदस्तं नदं । यथैकाक्षरनाममाला - " नकारः For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy