________________
ShriMahiyeJanAradhanaKendra
winw.kobabrith.org
Achana San Maragarsun Gyanmar
श्रीपार्श्वच.
वीरस्तवनं.
॥६४॥
MAKALOCALCALCREASEAX
व्याख्या-हे वीर ! हे स्वामिन् । मे-मम सर्वपापानां सामर्थ्य कर्तृपदं । कार्याय कार्य कृत्वा इत्संज्ञया समं-तुल्यं | यदि जायते-संपद्यते । एति कार्यं कृत्वा गच्छतीति इत् तस्य संज्ञा तया समं । कार्यादनन्तरं पापानां सामर्थ्य विलयं याति, अनुबन्धरहितं स्वरूपहिंसात्वादित्यर्थः । अथवाऽत्र प्रतिलोमार्थोऽपि, यतः, सर्वपापानां कार्याय मे मम सामर्थ्य यदि इत्संज्ञया समं जायते, कार्य कृत्वा सामर्थ्य नष्टं, परिणामशीलत्वेन बन्धाभावादित्यर्थः । तदा मल्लक्षणो जनः त्वत्स्वरूपं लभेदिति । ( अत्र श्लोके ) 'स्वामिन्में' इत्यत्र संबोधनपदाने आदेशश्चिन्त्यः ॥९॥ ___ अथ जिनस्य लोकोत्तरवैद्यत्वं दर्शयति
आमाः शृण्वन्तु मोहाद्या, अरेदोन्नामिनो गुणः। यथाऽऽयुर्वेदिनो जन्तो-स्तथा वीरोमयेक्षितः॥१०॥ ___ व्याख्या-अरे मोहाद्या आमा रोगाः! भवन्तः शृण्वन्तु । यथा आयुर्वेदिनो वैद्यात् जन्तोर्जीवस्य गुणो नीरोगलक्षणो गुणो भवति । कथंभूतस्य जीवस्य ? अरेदो इति अरे इति पीडया शब्दं ददाति भाषितः सन् प्रत्युत्तरं जल्पति इति अरेदो रोगयुक्तः, उत् ऊर्च नमतीत्येवंशील उन्नामी प्रबलपीडया उच्छलच्छरीरः। अरेदश्चासौ उन्नामी च अरेदोन्नामी इति कर्मधारयः, तस्यारेदोन्नामिनः रोगाभिभूतस्येत्यर्थः श्लेषार्थत्वात् जन्तोः, कस्य इव ? नामिन इव, यथा| नामिनः स्थानका वर्णा अर एत् ओत् इति गुणसंज्ञका भवन्ति । आमशब्दस्यापि अरेदोन्नामिन इति विशेषणं । यथा |किंभूता आमाः? अरे इति पीडया शब्दं रोगिणां ददति कथापयन्ति तेऽरेदाः, उन्नामयन्ति ऊर्ध्वमुच्छालयन्ति रोगिण
॥ ६४॥
For Prate And Person
Use Only