________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गानपतिः ।
1
૬૩
अध प्रतिपदादिकल्पः । तत्र उभयदिने पूर्वाले शुक्लप्रतिपक्षाने पूर्ववत् संकल्पपूर्वकालीनं कर्म कृत्वा श्रम् अद्य आश्विने मासि शक्के पछे प्रतिपदि तिथावारभ्य शुक्लदशमीं यावत् प्रत्यहम् अमुकगोत्रोऽमुकदेवशर्मा स्कन्दवत् पालनासंख्यातपुत्रदारधनर्द्धिमदैहिक परमभोगलाभपूर्वकामुत्र देवभवनकामी दुर्गाप्रीतिकामो वा वार्षिकशरत्कालीन श्रीदुर्गा महापूजामहं करिष्ये इति संकल्प "श्रीं देवोवो द्रविणोदा पूर्ण विवष्ट्वा मिचम् । उहा सिध्वमुप वा पृणध्व मा दिहो देव श्रहते ॥” इति सूक्तं पठित्वा घरं संस्थाप्य पूर्ववत् दुर्गा संपूज्य गन्धामलक्यादि के संस्कारद्रव्यं कङ्कतिकाञ्च दद्यात् । एवं द्वितीयायां केशसंयमनहेतुकं पहडोरकं, तृतीयायां चरणरागार्थमलक्तकं, शिरसि धारणार्थं सिन्दूर, सुखविलोकनार्थं दर्पणं, चतुथ्यां मधुपर्क, तिलकाकारं रजतादिकं नेत्रमण्डनं कज्वलं, पञ्चम्यां चन्दनमनुलेपनं यथाशक्त्या अलङ्कारच दद्यात् । षष्ठयादिषु देवोबोधनादिकं पचाइक्ष्यमाणं बोध्यम् ।
अथ षष्ठयादिकल्पः । तत्राश्विनशुक्लपचे पत्र प्रवेशपूर्वदिने ज्येष्ठा नक्षत्रयुक्तायां षष्ठयां केवलायां वा सायं समये बोधनात्तु प्राक् प्रातरादिकाले वा विश्ववक्षसमीपं गत्वा पूर्ववत् संकल्पप्राककालीनं कर्म कृत्वा श्रोम अद्य श्रखिने मासि शुक्ल पक्ष षष्ठयान्तिथावारभ्य शुक्लदशमीं यावत् प्रत्यहम् अमुकगोत्र : अमुकदेवशर्मा अतुलभूतिकामः संवारसुखकामो श्रीदुर्गाप्रीतिकामो वा वार्षिकशरत्कालीन दुर्गापूजामहं करिष्ये इति संकल्पा देवोव इति पठित्वा घटं संस्थाप्याचारात् विवत' दुर्गा संपूज्य सायं ज्येष्ठायुक्तायां केवलायां वा षष्ठयां वितरुसमीपं गत्वा पूर्ववत् दुर्गापूजान्तं कर्म कृत्वा
For Private and Personal Use Only