SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२६ मठप्रतिष्ठादितत्त्वम् । चेदुभयं कुय्यादन्यस्मै प्रतिपादयेत्' । इति छन्दोगपरिशिष्टेकवाक्यत्वात् । एवञ्च ब्राह्मविधानाग्निस्थापनादि प्रीयतां भगवान् विष्णुरित्यन्त कर्म समाप्त संस्कृतगोपथादिदाननियम व्रत कृच्छ्रादि-करणान्यतमरूपा - समुदाय प्रतिष्ठावगन्तव्या समुदायस्य संस्कृतगोपथादेः प्रतिष्ठा समुदायप्रतिष्ठा । तथाच कपिलपञ्चरात्रं 'प्रतिष्ठाशब्दसंसिद्धिः प्रतिपूर्वाच्च तिष्ठतेः । वर्थत्वान्निपातनानां संस्कारादौ प्रतेः स्थितिः । ततश्च गोपथादेरुक्तकर्म संस्कृतस्य तस्य फलजनकत्वम् । अप्रतिष्ठन्तु निष्फलमित्युक्तः । एतत् कृतकर्मणा प्रौयतां भगवान् विष्णुरिति समर्पयेत् । मठप्रदानात् स्वर्लोकमित्यत्र मठप्रदं देववेश्मपरम् । उपक्रमोक्त्रेऽपि तस्मिन् फलान्तरानुपदेशात् । अन तृणकाष्ठादिभेदेन स्वर्गतारतम्य रक्ष्यमाणविष्णुधर्मोसरवचनादवगन्तव्यमिति । ततः प्रासादसमीपे श्रोम् उत्तिष्ठ ब्रह्मणस्पते इति मन्त्रेण देवतामानीय पूजयित्वा प्रासादं गत्वा दानानि च दत्त्वा देवतामादाय तां प्रदक्षिणं कारयित्वा च भद्रं कर्णेभिरिति मन्त्रेण प्रवेशयेत् । च देवस्यत्वेति मन्त्रण पिण्डिकोपरि न्यसेत् । श्र स्थिरोभवेति मन्त्रेण स्थिरीकरणम् । ततो गन्धपुष्पाभ्यां पूजयित्वा यावदरेति मन्त्रण देवतासन्निधिं देवतासन्निधिं कुर्य्यात् । कपिलपञ्चरात्रम् 'एवं कृत्वा विधानन्तु प्रासादे देवमानयेत् । उत्तिष्ठेति यथायोगं पठेद्दे सुसमाहितः । प्रासादञ्च ततो दत्त्वा कारयेत्तं प्रदचिणम् । ततः संवेशयेद्देवं भद्रं कर्णेभि मन्वितम् । देवस्यत्वेति मन्त्रण पिण्डिकोपरि विन्यसेत् । स्थिरोभवेति मन्त्रण स्थिरं कुर्य्याज्जनार्दनम् । पूजयित्वा ततोदेवमिमं मन्त्रमुदीरयेत् । यावद्धराधरो देवो यावत्तिष्ठति मेदिनी । तावदव जगन्नाथ सन्निधौभव केशव' । अत्र च तथाच For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy