SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतत्त्वम्। मित्रणे चान्यथावं तेषामिति। ननु मामिवेता ब्रोहियवौ उभयविध्यनुरोधादेकस्मिन्नेव प्रयोगे ब्रीहिभिरेकं वारं यवै. रप्यपरवारमिज्यतामिति चेन्न। अङ्गानुरोधनाश्रुतप्रधानाभ्यासस्यायुक्तत्वात् एवञ्च न केवलं ब्रोहियवसमुञ्चये प्रमाणाभाव: किन्तु प्रमाणविरोधोऽपि तथाहि पुरोडाशविधाना एव ओषधिद्रव्ये यस्मिन् कस्मिंश्चित् प्राप्ते ब्रोहयोऽपि पक्षे प्राप्ताः तत्राप्राप्तांशे प्रापणार्थानिरपेक्षबीहिश्रुति/हिभिरेवेति नियमनं गमयेत्। एवञ्च तथाच तत्र यवसमुच्चये निरपेक्षौहिश्रुतिबाध: स्यात्। एवं यवश्रुतेरपि नियमार्थत्वाद्रौहिसमुच्चये तहाध: स्यादिति। अतएवोक्तं गतिरन्या न विद्यते । एकार्थतया विविध कल्पात इति विकल्पः। तस्मादष्टदोषभिया उपोष्थे हे तिथौ इत्यत्र न इच्छाविकल्पः। किन्तु व्यवस्थितविकल्पः । अतएव हैतनिणये स्कन्दपुराणे। 'सम्पर्णका. दशौ यत्र प्रभाते पुनरेव सा। उत्तरान्तु यतिः कुयात् पूर्वामुपवसेदग्रहो'। कूर्म पुराणेऽपि। 'एकादशीप्रवृद्धा चेच्छुक्ल कष्ण विशेषतः। तत्रोत्तरां यति: कुर्यात् पूर्वामुपवसेदग्रहो'। एकादण्येव प्रकर्षेण वृद्धा परदिने निर्गता न दशमौ नापि हादशी चेत्यर्थः । 'पुन: प्रभातसमये घटिकैका. यदा भवेत्। तत्रोपवासो विहितो वनस्थस्य यतेस्तथा। विधवायाश्च तत्रैव परतो हादशौ न चेत्'। एतेन पारणदिने द्वादशौलामे सर्व एव पूर्णां त्यक्त्वा खण्डामुपवसेत् इति। तदलाभे राही पूर्वामपरस्त त्तरां विधवापोति लभ्यते। ____ अथ निस्पृशैकादशौ। यदा पूर्वदिने दशमी परदिने चैकादशौ खल्पा ततो हादशोराविशेषे वयोदशी तदा सैव सर्वैरुपोथा। 'एकादशी हादशी च रात्रिशेषे त्रयोदशी। अत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणम्'। इति इलायुधः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy