________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यतत्त्वम्।
४३५
'चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि। मधुस्वरो भवेन्नित्यं नरो गुडविवर्जनात्। तैलस्य वर्जनादेव सुन्दराङ्गः प्रजायते। कटुतैलपरित्यागाच्छवनाश: प्रजायते। लभते सन्तति दोघीं स्थालीपाकमभनणात् । सदा मुनिः सदा योगी मधुमांमस्य वर्जनात्। निर्व्याधिनिरुगोजखी विष्णुभक्ताः प्रजायते। एकान्तरोपवासेन विष्णलोकमवाप्नुयात् । धारणानखलोम्नाञ्च गङ्गास्नानं दिने दिने। नमो नारायणायेति जवाऽनशनजं फलम्। पादाभिवन्दनाहिष्णोर्लभहोदानजं फलम्'। महाभारते 'चतुरो वार्षिकान् मासान् यो मांसं परिवर्जयेत् । चत्वारि भदाण्याप्नोति कीर्तिमायु: यशो बलम्'। तत: प्रातःकृतःस्नानादिरुदम,खः कुशफलपुष्पतिलजलान्यादाय प्रोम् मूर्यः सोम इति पठित्वा ओम् तहिष्णोरित्यादि च पठित्वा ओम् तत्सदित्युच्चार्य अद्याषाढ़े. मासि शक्लपक्षे हादश्यां तिथौ अमुकगोत्रः श्री अमुकदेवशर्मा अद्यारभ्य कोल्युर्यशो बलावाप्तिकामो विष्णुप्रीतिकामो वा चतुर्मासं यावत् चातुर्मास्यव्रतमहं करिष्ये इति। तथा 'भाषाढादि चतुर्मासं प्रातःस्नायो भवेन्नरः। विप्रेभ्यो भोजनं दत्त्वा कार्तिक्यां गोप्रदो भवेत् । स च विष्णुपुरं याति विष्णुव्रतमिदं स्मृतम्। एवमादिवतैः पार्थ तुष्टिमायाति केशवः' ।
आरम्भे तु 'इदं व्रत मया देव गृहीत पुरतस्तव। निर्विघ्नां सिद्धिमाप्नोतु प्रसादात्तव केशव। ग्टहीतेऽस्मिन् व्रते देव यद्यपूर्णे त्वहं निये। तन्म भवतु संपूर्ण त्वत्प्रसादाज्जनार्दन'। इति सनत्कुमारोक्तं पठेत्। समाप्तौ तु उत्थानद्वादश्याम् ‘इदं व्रत मया देव तव प्रोत्यै कृत विभो। न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाजनार्दन' इति पठेत् । ततो दक्षिणां दत्त्वा छिद्रमवधारयेत्। एवं ब्रतान्तरेऽपि
For Private and Personal Use Only