________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शुचितत्त्वम् ।
कारयेत् मासेन स्त्रीजननीमिति पैठोनस्युक्त बहुकालीना-शौचत्वात् पूर्वजातकन्यामरणे तु मातृपिटसपिण्डानां सद्यः शौचम् | 'आजन्मनस्तु, चूड़ान्तं यत्र कन्या विपद्यते । सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः' इति ब्रह्मपुराणोक्तेः परजातकन्या मरणे तु पितृसपिण्डयोवर्द्धितदिनदयसहित पूर्वाशौचान्तादेव शुद्धिः तन्मातुस्तु मामाशौचभागितया पूर्वाशौचा वधिस्थायित्वाभावेन सपिण्ड साधारण्या भावात् सद्यः शौचम् आजन्मनस्त इति प्रागुक्तेः । एवञ्च असमानं द्वितीयेनेति प्रागुक्तशङ्खवचने यन्मरणस्य शुद्धिहेतुत्वमुक्तं तज्जननाशौचकालापेक्षया समान दौर्घकालव्यापका शौचजनकत्वेन बोध्यम् । अन्यथा दीर्घकालीनाशौचस्य स्वकालशद्धिं प्रति दौर्घकालोनत्वरूपं गुरुत्व' बाधित्वा ममानलघुकालौ नाशौचयोस्त दीर्घकालीनत्वरूपगुरुत्वासम्भवेन तदबाधित्वा मरणमात्रस्य गुरुत्वे प्राप्ते बाधकापेक्षानपेक्षतया विधिवैरूप्यापत्तेर्वाक्यभेदः स्यात् । तथाच दौर्घकालाशौचकालाच्छुद्धिमाह मिताक्षरायाम् उशनाः । 'स्वल्पाशौचस्य मध्ये तु दोर्घाशौचं भवेद यदि । न तु पूर्वेण शुद्धि: स्यात् खकालेव प्रति' इति 'दशाहाभ्यन्तरे बाले प्रमोते तस्य बान्धवैः । शावाशौचं न कर्त्तव्यं सूत्याशौच विधीयते' इति मिताच राष्ट्रतवृहन्मनुवचनात् 'मातुश्च सूतकं तत् स्यात् पिता त्वमृश्य एव च' इति कूर्म - पुराणवचनाच्च 'मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् इत्यस्य 'मृतेन स्तकं गच्छे नेतरत् स्तकेन तु' इत्यस्य च सामान्यविषयत्वे व्यभिचारः । तथाच जननाशौचमध्ये मरणाशौचपाते अधिककालव्यापकेन जननाशीचेन शद्धिः । कुवेर - धृतवृड मनुरपि 'शावस्योपरि शावे तु सूतकोपरि सूतके । शेषाहोभिर्विशुद्धिः स्यात् उदक्यां सूतिकां विना' अत्र
For Private and Personal Use Only