SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। पर्यमानविधाय कमिति। अथैवं 'नाष्टकासु भवेत् श्राई न श्राद्धे श्राद्धमिष्यते। न सोप्थन्तो जातकर्म प्रोषितागम. कर्मसु' इत्यादिना छन्दोगपरिशिष्टोक्तनिषेधस्यानुपपत्तिः तत्तत्कर्मणि श्राद्धविधायकाभावात्। सोष्यन्ती सोयन्ती होमः। स च शूलायन्तीमासनप्रसवां ज्ञात्वा होमः । सुप्रसवे इत्यस्माद्धातोरिति भट्टभाष्यदर्शनाहन्त्यादिरयं शब्दः । मैवं तेष्वपि गोभिलेन खोक्तग्टह्यकर्मत्वेन श्राद्धविधानात् यथा सर्वाण्येवान्वाहाय्यवन्तीति। अस्यार्थः सर्वाण्येव वक्ष्यमाणानि अन्वाहार्यवन्ति अन्वाहाय्यं नान्दोमुखश्राद्धं दक्षिणा च तदुभययुक्तानि । तथाच गृह्यान्तरम् । 'यत् श्राई कर्मणामादौ या चान्ते दक्षिणा भवेत्। आमावस्यं द्वितीयं यदन्वा. हाय्यं तदुच्यते'। अतएव छन्दोगपरिशिष्टकता यानि पर्यु: दस्तानि तानि सर्वाणि गोभिलोक्तानि। अत्र जातकर्मणि श्राइनिषेधात्तत्र तद्विधायकं वचनं शाख्यन्तरीयम्। न चैवं सध्यावन्दनादेर्गोभिलोक्तत्वात् तत्र कथं न वृद्धिथाइमिति वाच्यम्। यस्मादयातो ग्राह्यकर्माण्युपदेक्ष्याम इत्यादि पुनयज्ञविवाहयोश्चेत्यन्तसूत्ररूपरह्याद्भिव एव अथात: सन्ध्योपासनविधिं वक्ष्याम इत्याद्यमावास्यायां सर्वमित्यन्त ग्रन्थः सन्ध्यातर्पणविधायकः। उभयत्रैव शेषसूत्रे द्विवचनं ग्रन्थसमात्यर्थमिति तद्भाष्यव्याख्यानम्। एवञ्च गोभिलानुक्तेष्वन्नप्राशनादिषु यहुद्धि श्राद्धं तन्मलमासतत्त्वे मत्स्यपुराणादिवचनाहच्यते । तर्हि न श्राद्धे श्राद्ध मिष्यत इति पर्य्यदासानुपपत्तिरिति चेत् सत्यं गोभिलग्योऽप्यन्वष्टकादिश्राइविधानात्। तस्मादेकादश्यादिवते गोभिलग्राह्यानुक्तत्वाहिशेषवचनाभावाच्च न वृद्धिश्राइमिति। एवमन्यत्रापि सुधीभिर्भाव्यमिति । अथोपवाससमन्वयः। भविष्थे। 'उपावृत्तस्य पापेभ्यो For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy