________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शचितत्त्वम्।
निमित्तजनितपापाभिव्याप्तकालाभ्यन्तरे द्वितीयनिमित्तोत्पत्ती प्रथमपाप मेवाभिवईते पाद्यपापद्वितीयपापनिमित्ताभ्यामघान्तरजननं वा उभयथापि इयोरधिकारिणोस्त दत्ययकाल एव अशौचान्तकाल इति मिश्राः। अतएव पूर्वाशौचान्तदिनकृत्यमपि हादशदिने क्रियते। तत्करणादेव च शुद्धिः तथाच आदिपुराणे 'यस्य यस्य तु वर्णस्य यद्यत् स्यात् पश्चिमं त्वहः। स तत्र वस्त्र शुद्धिञ्च गृहशुद्धिं करोत्यपि। समाप्य दशमं पिण्डं यथाशास्त्रमुदाहृतम्। ग्रामाहिस्ततो गत्वा प्रेतस्मृष्टे च वाससौ। अन्त्यानामाश्रितानाञ्च त्यत्वा नानं करोत्यपि। श्मश्रुलोमनखानाञ्च यत्त्याज्यं तज्जहा. त्यपि। गौरसर्षपकल्केन तिलतैलेन संयुतः। शिरःस्नानं तत: लत्वा तोयेनाचम्य वागयतः। वासो युगं नवं शुभमवणं शुद्धमेव च। गृहीत्वा गां सुवर्णञ्च मङ्गलानि शुभानि च। स्पृष्ट्वा संकीर्तयित्वा तु पश्चाच्छुद्धो भवेन्नरः'। पश्चिम त्वहः अशौचान्तिमदिनं ग्रहशुद्धिं प्राक्तनपाकमाण्ड त्याग उपलेपनादिना त्याज्यं त्यागाहं यत् सदा त्याज्यं तत् इत्यर्थः । यथा मिताक्षरायां 'मुगह येत् सर्वगात्राणि कक्ष. वक्ष:शिखावहिः'। क्रममाह वराहपुराणम्। 'श्मश्रुकर्म कारयित्वा नखच्छेदमनन्तरम्'। गोभिलः 'के शश्मश्रुलोमनखानि वापयोत शिखावर्जम्'। अशौचाधिकार प्रापस्तम्बः । 'अनुभाविनाञ्च परिवापनम्' इति अनुपश्चाद भव. न्तौति अनुभाविन: कनिष्ठास्तेषामेव पुरुषाणां वापनमिति रत्नाकरादयः। तन्न श्रीपतिरत्नमालायां जननाशीचे मुण्डनविधानात्। तथा 'आजया नरपतदिजन्मनां दारकर्ममृतसूतकेषु च। बन्धमोक्षमखदौक्षणेष्वपि क्षौरमिष्टमखिलेषु घोडुषु। तस्मादनुभाविनां स्वाशौचमनुभवतां 'क्लप्तकेशनख.
For Private and Personal Use Only