________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
व्यवहारतत्त्वम् ।
मपि यत् साच्य स्वपक्षं परिभाषताम् । श्रवणात् श्रावणाद्वापि स साच्युत्तरसंज्ञकः । खपक्षसम्बन्धि साक्ष्य' परिभाषतां साक्षिणां यः स्वयं शृणोति श्रर्थिना श्राव्यते वा स श्रवणात् श्रावणादुत्तरसाक्षौत्यर्थः । एवं योऽर्थिना गूढतया प्रत्यर्थिवचनं श्रावितः स गूढ़साक्षीत्याह स एव । 'अर्थिना सार्थ - सिद्धार्थं प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते तदा गूढ़ो गूढ़
साचौ स उच्यते ।
तेनान्यतरवाद्यभिहितार्थविषयक दृष्टकारणजं विज्ञापनं साच्यमिति स्थितम् । तत्र नारदः । 'तेषामपि न बालः स्थान्नेको न स्त्रो न दुष्टकृत् । न बान्धवो न चारातिब्रूयुस्ते कार्यमन्यथा । कार्य्यं सदपि अन्यथा तद्विरुद्धत्वेन । एवञ्च यदि परमधार्मिकत्वेन बान्धवादीनामपि सत्यवादित्व निश्चीयते तदा तेऽपि साक्षिणो भवितुमहन्तौति । तेषां साक्ष्यविधायकं वक्ष्यमाणमनुवचनमपि एतादृग्विषयम् । याज्ञवल्का: ' वावराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रिया रताः । यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः' । त्रयोऽवरा निकृष्टा येषां ते वप्रवराः विभ्योऽन्यूना भवन्तीत्यर्थः । यथेति यो यज्जातीयस्तस्य तज्जातीयः साची स्त्रीणां स्त्रियोऽन्त्यजानामन्त्यजा: यथावर्णं ब्राह्मणानां ब्राह्मणाः चत्रियादीनां क्षत्रियादयः अभावे तु तत्तद्वेदं विना सर्व एव । नवरा इत्यस्यापवादमाह स एव । 'उभयानुमतः साक्षी भवेदेकोऽपि धर्मवित्' । उभयानुमतत्व' धर्मवित्त्वञ्च नियतं तन्त्रम् । तदाह विष्णुः । 'अभिमतगुणसम्यन्नस्तूभयानुमतस्त्व कोऽपि' इति । अतएव श्रोत्रियमप्येकं निषेधयति वृहस्पतिः । 'नव सप्त पञ्च वा स्युश्चत्वारस्वय एव वा । उभौ तु श्रोत्रियो ग्राह्यौ नैकं पृच्छेत् कदा'चन' । एको मिलितगुणसम्पन्नः प्रधानकल्पः तदभावे उभ
For Private and Personal Use Only