SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । माह व्यासः । 'कुलस्त्रीबालकोन्मत्तजड़ा नाञ्च बान्धवाः । पूर्वपक्षोत्तरे ब्रूयुर्नियुक्तो भूतकस्तथा'। मात्रादौतरस्य पक्ष. स्थितस्य दण्ड नौयत्वमाह नारदः। 'यो न माता पिता वापि न पुचो न नियोजितः। परार्थवादी दण्डाः स्याहावहारेषु विब्रुवन् विरुद्ध ब्रुवन्। नारदः 'निवेष्ट कामो रोगार्हो यियक्षुर्व्यसने स्थितः। अभियुक्तास्तथान्येन राजकर्मीद्यत. स्तथा। गवां प्रचार गोपाला: शस्यबन्धे कृषौबलाः । शिल्पिनश्चापि तत्काले प्रायुधौयाच विग्रहे। अप्राप्तव्यव. हारच दूतो दानोन्मुखो व्रतौ। विषमस्थाच नासध्या न चैतानाह्वयेनृपः'। निर्वेष्टु कामो विवाहप्रवृत्तः अन्येन वादा. न्तरेण अप्राप्तव्यवहारः षोड़शवर्षावरवयस्कः। तत्काले विवाहादि समाप्तिपर्यन्तकाले। एते विषमस्थाच उपप्लकदेशस्थाश्च उत्तमर्णादिना नासेध्यानावधावनीयाः। एतान् प्रागुक्तान् वादिना निवेदितानिति शेषः। यान्नवल्काः । 'अभियोगमनिस्तौर्य नैनं प्रत्यभियोजयेत्'। अभियुक्तः सन् उत्तरमदत्त्वा भाषावादिनमतं स्वाभियोगानुपमर्दकेन विवादा. न्तरेण न योजयेत् युगपदनेकव्यवहारासम्मवात्। नारदो. ऽपि। 'पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः। वादसंक्रमणाज्ञयो होनवादी स वै नरः'। हौनवादीत्यनेन दण्डयतोता न तु प्रकृतार्थाचीनता अन्यथा छलापत्तेः। पारुष्ये प्रतिप्रसवमाह स एव । 'कुर्यात् प्रत्यभियोगच कलहे साहसेषु च'। वाक्पारुथ शस्त्रादिप्रहारेषु च यथापूर्व. महमप्यन्ये नाक्रुष्टः शस्त्रेण हत इत्यपराधाभावाय प्रत्यभियोगं कुर्यात्। तथाच वृहस्पतिः। 'आक्रुष्टस्तु यदाक्रोशं स्ताड़ित: प्रतिताड़यन् । हत्वाततायिनञ्चैव नापराधौ भवे. बरः'। एतेन वाक्पारुथदण्ड पारुथयोः प्रक्वताभियोग For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy