SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । लिङ्गपुराणम् । “युग्माभिन्नाञ्च विल्वस्य फलाभ्यां शाखिका तथा। तथाच मृण्मयों देवों स्नात्वा पूज्य प्रवेशयेत् ॥ एतानि षष्ठयादिकल्पविधायकानि। षष्ठयां बोधने तु नक्षवानुपदेशान्न तदादरः। ज्येष्ठादरस्तु आमन्त्रण एव तत्रापि विशेषो वक्ष्यते। आमन्त्रणन्तु षष्ठों विना सायमेव । "यज्ञौया देवताः सर्वाः श्वः कार्ये यज्ञ कर्मणि। सायमावाहयेहिहानान्यत्रेति निमित्तकात् ॥ श्खो भाविनि जगमित्र प्रवेशे विन्ध्यवासिनी। विल्वपादपमभ्येति पूजार्थ सायमम्बिका" ॥ इति हयशौर्षपञ्चरात्रौयदेवीकाण्डात्। “ज्येष्ठावाप्यथवा षष्ठी सायं कालेन चेद्भवेत्। सायमेव तथापि स्यात् विल्वशाखाभिमन्वणम् ॥ पूर्वी षष्ठी सनक्षत्रां सायं प्राप्तामपि त्यजेत् । यदा तु पत्रिका पूजा न पराभविष्यति । सविसष्टञ्च यत्पूर्व पत्रिका दिवसस्य तु। तहिने वरणं कृत्वा परे शाखां प्रवेशयेत् ॥ इति स्मृति सागरत मत्स्यसूक्ताच्च ब्रह्माण्ड नन्दिकेश्वरपुराणयोः “पत्रौप्रवेशात् पूर्वद्यः साया विन्ध्यवासिनीम्। चण्डोमामन्त्र येहिहान् नात्र षष्ठी पुरकिया"॥ बिन्ध्यवासिनौमित्यत्र विल्ववासिनौमिति भविष्यपुराणे पाठः पठन्ति च । “सायं षष्ठयान्तु कर्त्तव्यं पार्वत्या अधिवासनम्। षष्ठाभावेऽपि कर्त्तव्यं सप्तम्यामपि मानद" ॥ इति। ये त्वेतानि वचनान्यनालोच्य पत्रौप्रवेशाव्यवहितपूर्वदिन एव षष्ठयामेव विल्वाभिमन्त्रणं अवते तेषां पूर्णषष्ठानन्तरं षष्ठोलाभे धटिकान्यन षष्ठीलाभे वा तत्परदिने घटिका तदधिक सप्तमौलाभे वा तदनुपपत्तेः पूर्वदिवसौयायाः षष्ठयाव्यवहितत्वात् परदिवसोयायाः कर्मानईत्वादिति। अथ सप्तमीपूजा। तत्र सप्तम्यां मूलयुक्तायां केवलायां वा पूर्वाह्ने पत्रौप्रवेशः । उभयत्र सप्तमीला परत्र । “युगाद्या वर्षदिश्च सप्तमौ पार्वतीप्रिया। रवेरुदयमौक्षन्ते न तत्र तिथियुग्मता" ॥ इति देवीपुराणात्। ज्योतिषे “पूर्वाहे नवपत्रिका शुभकरौ सर्वार्थसिद्धिप्रदा प्रारोग्यं धनदा करोति विजयं चण्डो प्रवेश शभा। मध्याह्न जनपौड़नक्षयकरी संग्रामघोरावहा सायाहू बधबन्धनादिकलहं सर्पचतं सर्वदा। For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy