SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७७ मलमासतखन् । अवति तत्तन्यासपदवाचतेति चयमामेऽपि मोनादिस्थो रविरित्यादिव्यासोलरक्षण पूर्णतविषये सङ्गतिः। यत्र तु दर्श कन्यासंक्रान्तिभूता तुलामंक्रान्तिस्तु प्रतिपदि एवं प्रतिपदि वृश्चिकधनुःसंक्रान्ती ततस वक्रगत्या दर्श मकर कुम्भमौनसंक्रान्तय: प्रतिपदिमेषसंक्रान्तिस्तत्र कन्यायां मलमासः धनुषि क्षयो मौने भानुलचितः। तत्र क्षयमासस्य मार्गशीर्षमावत्वात्तदुत्तरमासानां भानुलकितावधिकानां पोषादित्वार्थे पूर्वराशिस्थरव्यारब्धत्वयोग्यतया तसङ्गतिः। ततश्च योग्यताअयणेन परस्तत्र मलिमच इत्यस्य विषये सति भानुलखितो. सरक्षयमासावधिकषु पूर्वस्तत्र मालम्लुच इत्यस्य विषये सति भानुलवितावधिकेषु क्षयमासोत्तरमामेषु समक्षणस्य नाव्याप्तिः । एवञ्चौत्पातिक तदनुरोधान व्यवहारः किन्तु पोसर्गिककालानुरोधादेव। तथा च संवत्सरप्रदौपे। “उत्पातन भवेद्यस्तु कालस्वातिक्रमः कचित्। न तत् स्याहावहाराङ्गमित्याह भगवान् हरिः ॥ न च वर्षहयात् परं तुलायाममावास्यायां हधिकादिषु मेषपर्यन्तेषु प्रतिपदि संक्रान्तौ तुलायां कार्तिक एव मलमासः। तदुत्तरत्र भानुलखितोत्तरवत् शङ्खवेलान्यायो नास्ति कथमिति वाच्यं क्षयमासयुताब्दे तु गत्यन्तराभावात् शङ्खवेलान्यायानुसरणं सत् सम्भवे तदनुसरणस्यान्याय्यत्वात्। यत्तु इदं वा किं यदन्यस्यां तिथौ संक्रान्तरुपधानं स्वरूपयोग्यता पुनरन्यस्यामिति तदपि चिन्यं ग्रहस्थितदण्डे घटस्य फलोपधानं स्वरूपयोग्यता पुनररण्यस्थदण्डेऽपोति। अथ तत्र दृढ़दण्डत्वेन धमिजननयोग्यतोभयसाधारगी विद्यते प्रतते तु कौशौति चेटेकशक्तिमत्व नैति ब्रूमः । सा च शक्तिः फलवलोब्रया क्षयमासयुताव्दे तु चैत्रोत्तरावैशाखस्तदुत्तरो ज्येष्ठ इत्यादिक्रमानुरोधेन चैत्र For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy