________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५५८
प्रायश्चित्ततत्त्वम् ।
1
त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शद्धति । तां निशां तु व्यक्तिक्रम्य खजात्यक्तन्तु कारयेत्" ॥ इति वचनान्तरदर्शनात् एतत् कामतः । अत्र दिनभेदोऽपि नास्ति । श्रज्ञाने वृहस्पतिः । " पतितान्त्यश्वपाकैस्तु संस्पृष्टा स्त्रौ रजखला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽह्नि विराचन्तु द्वितीये ग्रहमाचरेत् । अहोरात्र तृतीयेऽह्नि चतुर्थे नक्तमाचरेत्” ॥ चतुर्थेऽह्नौति शुद्दिस्नानात् पूर्वं व्याघ्रः । " रजस्वला यदा स्पृष्टा श्वजम्बुकखरैः कश्चित् । निराहारा भवेत्तावत् यावत् खानेन शुद्यति ॥ चत्रापि बृहस्पत्य क्त दिनमेद. व्यवस्था । वृषशातातपः । " रजस्वले तु येनार्यावन्योऽन्यं स्पृशतो यदि । सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्त्तमतः परम् ॥ पञ्चगव्यपानं व्रतरूपम् । तेनोक्वासः । ब्रह्मकूर्द्धमाह जावालः । "अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्य पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः” ॥ तदशक्तौ पुराणैकं दातव्यम् । उच्छिष्टशूद्रादिस्पर्शे बृहस्पतिः । " शुना चोच्छिष्टया शूद्रा संस्पृष्टा ग्रहमाचरेत् । अहोरात्र तृतौयेऽह्नि परतो नक्तमाचरेत्” ॥ परतश्चतुर्थदिने खायात् पूर्वमिति ज्ञेयम् । इति श्रीरघुनन्दन भट्टाचार्यविराचितप्रायश्चित्ततत्त्वं समाप्तम् ।
1
For Private And Personal Use Only