________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२४
प्रायवित्ततत्त्वम् ।
शार्थं श्राद्धं कर्त्तव्यम् । दशान्धूनब्राह्मणेभ्यो भोज्यादिकं देयम् । एतत्सवं गोस्वामिनं मूल्यादिना परितोष्य करणीयम् । अमुकस्य मतमेतदेवमन्यत्राप्यूहेन लेख्यम् । विशेषदचिणोक्तौ तु सैव लेख्या । केशरक्षणे तु प्रायन्ति द्वैगुण्यं दक्षिणा च हिगुणा । योषितां मुण्डने तु श्रृङ्गुलिद्दय परिमित सर्व के शाग्रच्छेदन कर गौयमिति लेख्यम् । प्रायश्चित्त करणे तु अमुकपापक्षय काम इदं काञ्चनमिति वाक्ये विशेषो बोध्यः । नारायणश्च स्मर्त्तव्यः । "प्रातर्निशि तथा सन्ध्या मध्याह्नादिषु संस्मरन् । नारायणभवाप्नोति सद्यः पापक्षयं नरः ॥ इति विष्णुपुराणे पापक्षयः । गर्भिण्यादौ तु विशेषमाह वृहस्पतिः “ गर्भिणीं कपिलां दोग्ध्रों होमधेनुञ्च सुव्रताम् । रोधादिना घातयित्वा द्विगुणं गोव्रतञ्चरेत् ॥ गर्भिणोबधे तु विशेषमाह वृडयमः । " गवां निपतने चैव गर्भनाशो यदा भवेत् । एकैकन्तु चरेत् कच्छ यथा पूर्वं तथा परम् ॥ कच्छ्रपदं व्रतपरम् । द्विगुणं गोव्रतमित्येकवाक्यत्वात् "पादमुत्यवमात्रे तु हौ पादौ गावसम्मिते । पादोन व्रतमाचष्टे हत्वा गर्भमचेतनम् । श्रङ्गप्रत्यङ्गसम्पन्ने गर्भे चेतः समन्विते । दिगुणं गोव्रत कुय्यात् प्रायश्चित्तं विशुद्धये " ॥ मध्यमवचनं भवदेवव्याख्यातम् । यथा लगुड़ाभिघातेन गौर्जीवति गर्भमात्रपातो भवति तदोत्पन्नगर्भमावपाते यथोक्तप्रायश्चित्तपादाचरणम् । गात्रावयवोत्पत्तौ प्रायवित्तपाददयं सकलगाचसम्पत्तौ चैतन्याभावे प्रायश्चित्तपादत्रयम् । अर्थाच्चैतन्ययुक्तगर्भघाते कृत्स्नमेव प्रायश्चित्तमूहनौयम् । मिताक्षरायान्तु । गर्भिणौबधे यदा गर्भोऽपि नित भवति तदा प्रतिनिमित्तं नैमित्तिकमावर्त्तत इति न्यायादविशेषेण द्विगुणव्रतप्राप्तौ षट्त्रिंशन्मते विशेष उक्तः । “पाद उत्पन्नमात्रे तु दो पादौ दृढ़तां गते । पादोन व्रतमुद्दिष्ट
For Private And Personal Use Only