________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५१५ प्रायश्चित्ततत्त्वम्। तथा व्यवहारः। एतन्मलकं भविष्यमस्य तन्त्रयोवचनम्। "अशोभिवराटकैः पण इत्यभिधीयते। तैः षोड़शैः पुराणं स्थात् रजतं सप्तभिस्तु तैः' इति गोतमोक्तपरिगणनीयनियमस्तु अनादिष्टे प्राथमिककल्याय प्रादिष्टे तत्तद्रव्यप्राधान्य हिरण्यादेरानुकल्पिकत्वमिति विशेषः । अतएव यमेन सामान्यतो दानमुक्तं यथा। "शोषणेन शरीरस्य तपसाध्ययनेन च । पापकन्मुच्यते पापात् दानेन दमनेन च ॥ प्रतः कार्षापणवयनभ्यं रजतादि दौयते । यत्तु मिताक्षरायाम्। “गवामभावे निष्कः स्यात्तदई पाद एव च" इति स्मरणानिष्कादिकमुक्तं तच्छततमाद्यपेक्षया तत्रापि “चतुःसौवर्णिको निष्कः" इति मनक्तनिष्कस्य न ग्रहणम् अत्यन्तविसदृशमूल्यत्वात् साष्टशतसुवर्णनिष्कवत्। किन्तु दौनारनिष्कस्य ग्रहणं तथा चामरः । “साष्टे शते सुवर्णानां हेम्नुपरो भूषणे पले दौनाऽपि च निष्कोऽस्त्री" इति दोनार उक्तो विष्णुगुप्तेन। "दीनारो रोपकैरष्टाविंशत्या परिकीर्तितः। सुवर्णसप्ततितमो भागो रोपक उच्यते” ॥ सुवर्णस्व शौतिरत्तिकापरिमितं हेम । तथा च मनुः। “पञ्चकष्णलको माषस्ते सुवर्णस्तु षोड़श" इति अन काञ्चनं व्यक्तमाहामरसिंहः। "मुवर्णविस्तो हेम्रोऽक्षः" इति । एवञ्च सप्तमांशाधिक हेमरतिकारोपकः तदष्टाविंशत्या हात्रिशत्तिकापरिमितो दौनारो निष्कः ।
अथ ज्ञानकतादिनिरूपणम्। तत्र गोबधस्य बुद्धिपूर्वक सदा भवति यदि गां ज्ञात्वा एतां हन्मौति इच्छया हन्ति तदा कामनाहारैव ज्ञानस्य प्रवृत्त्यङ्गत्वात्तदभावे त्वबुद्धिपूर्वकत्वम्। अतएव प्रवृत्त्वज्ञानस्य कामनाव्यभिचाराभावादेव। “कच्छ्रांस्तु चतुरः कुर्यात् गोबधे बुद्धिपूर्वके । अमत्या च इयं कार्यम्” इति विश्वामित्रवचनेन ज्ञानाज्ञानाभ्यां
For Private And Personal Use Only