________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
४४ प्रमाणच पाईन । “षड़यवाः पार्श्वसम्मिताः" इति कात्यायनदर्शनात् । अनयोर्व्यवस्थामाह कपिलपञ्चरात्रम् । “अष्टभिस्तैर्भवे ज्येष्ठं मध्यम सप्तभियंवैः। कन्यसं षडू भिरुद्दिष्टमगुल मुनिसत्तम" ॥ कन्यसं कनिष्ठम्। यवानां तण्डुलानाह कालिकापुराणम्। “यवानां तण्डुलैरेकमङ्गलञ्चाष्टभिमवेत्। प्रदीर्घयोजितैहस्तश्चतुर्विंशतिभिरङ्गलैः” । दानधर्म। "भाद्रकृष्णचतुर्दश्यां यावदा क्रमते जलम् । तारगर्भ विजानीयात् तदूच तौरमुच्यते” ॥ ब्रह्मपुराणे। साईहस्तशतं यावत् गर्भतस्तौरमुच्यते ॥ गङ्गावाक्यावल्याम् । “गङ्गातौर कृतं यत्नात् कोटिकोटिगुणं भवेत् ॥ स्कान्दे। “यज्ञो दान तपो जाप्य श्राद्धञ्च सुरपूजनम्। गङ्गायान्तु कृत सर्वे कोटिकोटिगुणं भवेत् ॥ गङ्गायामिति तौरपरमिति गङ्गाबाक्यावलो। पाझे "तौरे प्रतिग्रहस्त्यज्यस्त्याज्यो धर्मस्य विक्रयः” ॥ स्कान्दे “तोराहव्यतिमावन्तु परितः क्षेत्रमुच्यते । अत्र दान तपो होमो गङ्गाया नात्र संशयः। अत्रस्थास्त्रिदिवं यान्ति ये मृतास्ते पुनर्भवाः" ॥ गत्यतिः क्रोशयुगम्। न श्मशान न चादेशी गङ्गायां परिकीच ते ॥ तीर्थचिन्ता. मणो ब्रह्मपुराणम्। “अत्र दूरे समीपे वा सदृशं योजनदयम् । गङ्गायां मरणेनेह नात्र कार्या विचारणा" ॥ भविष्थे। "सुलभ सकल पुण्य यन्नदानादिज फलम्। गङ्गातोयैथ सतिलैदलभ पिटतर्पणम्” ॥ अत्र निषिद्धेऽपि दिने तिलतर्पणम्। यथा स्मृतिः। "तीर्थे तिथिविशेषे तु गङ्गायां प्रेतपक्षके। निषिद्धेऽपि दिने कुर्यात् तर्पणं तिलमिश्रितम्” । निषिद्धदिनमाह तत्रैव । “रविशुक्रदिने चैव हादश्यां श्राइवासरे। सप्तम्यां जन्मदिवसे न कुयात्तिलतर्पणम्” ॥ मत्यपुराणञ्च "संक्रान्त्यां निधि सप्तम्यां रविशकदिने तथा। श्राद्ध
For Private And Personal Use Only