SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राव तत्त्वम् । २३७ सर्वत्र नामनिर्देश इति भट्टभाष्यम् अतएव प्रागुक्त छन्दोगपरिशिष्टे प्राद्यमामन्त्रपूर्ववदित्युक्तम् श्राद्य पितरं पूर्ववत् गोत्रनामभिरामन्त्रा पितृनर्घ्यं प्रदापयेदिति वत् पितुरवनेजनं मूलदेशे पितामह प्रपितामहयोस्तु अवनेजनं मध्यदेशाग्रदेशयोः । “द्वितीयञ्च तृतौयञ्च मध्यदेशाग्रदेशयोः” इति छन्दोगपरिशिष्टात् । मातामहादीनामप्येवम् । "मातामह प्रभृतीं स्तु एतेषामेव वामतः" इति इन्दोगपरिशिष्टात् । एतेषां पितॄणां वामत इत्याभ्युदयिक परम्। अन्यत्र तु दक्षिणतः कर्तुर्वामोपचारत्वात् । अतएव पार्वणे प्रागुक्तब्रह्मपुराणेऽप्रदक्षिणं नेनिज्यादित्युक्तम् । तेन सतिलपुष्योदकपात्रं वामहस्ता हक्षिणहस्तेन वामान्वारब्ध ेन गृहीत्वा "अमुक गोत्र पितरमुक देवशन्नवनेनिच्व येचात्र त्वामनु यांश्च त्वमनु तस्मै ते खधा" इति पितृतीर्थेनावनेजयेत् । अपउपस्पृश्य जलं स्पृष्ट्वा एवं पूर्वोक्तरीत्या पितामहाय प्रपितामहाय पिण्डदानसूत्र जलस्पर्शन सूत्रञ्च पूर्ववत् व्याख्येयम् । अत्र च गृह्यानुक्त श्राद्ध सूत्रोक्तं सर्वमग्नौकरणशेष श्राद्धशेषञ्च तथाच छन्दोगपरिशिष्टम् । “ यावदनमुपादाय हविषोऽर्भकमर्भकम् । चरुणा सह सन्रीय पिण्डदानमुपक्रमेत्” । श्रावार्थ विषोऽनादेः सकाशात् यावत् भच्यमोदनव्यञ्जनादि ततोऽल्पाल्प' गृहीत्वा अग्नीकरण चरुशेषेण सह मिश्रीकृत्य पिण्डदानमारमेदित्यर्थः । एकस्मिन् पात्रेऽव मध्वादि द्रव्येण मिश्रयेत् । "मध्वाज्यतिलसंयुक्त सर्वव्यच्चनसंयुतम् । उष्णमादाय पिण्डन्तु कृत्वा विल्वफलोपमम् । दद्यात् पितामहादिभ्यो दर्भमूलात् यथाक्रमम्” इति ब्रह्मपुराणवचनात् अत्र पितामहपद पितृपरं वचनान्तरैकवाक्यत्वात् । अत्र पिण्डमात्रस्य विल्वफलोपमत्वश्रुतेः छन्दोगपरिशिष्टे च पित्रादौन् For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy