SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । र्थकं स्यात्। एतच्च जयन्ती शिवरात्रादिविशेषतरपरम्। यद्यपि “नानं दानं जपःश्राद्धमनन्तं राहुदर्शने। आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्जयेत्” ॥ इति पर्यु दस्तेतर. कालोऽपि कर्मयोग्यस्तथापि, “पूर्वाह्नो वै देवानां मध्य दिनं मनुष्याणामपराह्नः पितृणाम्"। इति श्रुत्युक्त काललामे स एव नियामकः प्रशस्तत्वात्। अतएव “ययास्त सविता याति पितरस्तामुपासते। तिथिन्तेभ्योऽपराहो हि स्वयं दत्तः स्वयम्भुवा" ॥ इति यद्यपरिशिष्टौयेन अस्तगामिन्यास्तिथेः प्रायेणापराह्नसम्बन्धेनापराह्नो हेतुतया निर्दिष्टो नतु पर्युदस्ते तरकालः प्रशस्तकालालामे तु सामान्य कालमादाय युग्मादिना व्यवस्था क्वचित् विशेषवचनादेव रात्रियुग्मादरः यथा । "मध्याङ्गव्यापिनी ग्राह्या एकमक्ते सदा तिथिः । नतादिव्रतयोगे तु रात्रियोगी विशिष्यते” ॥ अत्र युग्मतर कृष्णपक्षप्रतिपदुभयपक्षदशमी त्रयोदशी कृष्ण चतुर्दशो हैधे तु प्रागुक्तशुक्लपक्षे तिथिाह्येत्यादिना वक्ष्यमाण प्रतिपत् सहितौया स्थादित्यादिवचनाद्दावस्था। तिथेः पूज्यकालापेक्षा विधेयकमण्येव निषिद्धे कर्मणि तु तत्तत्तिथिमानापेक्षा। न तत्र पूज्यकालमात्रापेक्षा। तदाह कालमाधवौये वृद्धगायः । “निमित्तं कालमादाय वृत्तिविधिनिषेधयोः। विधिः पूज्यतिथौ तत्र निषेधः कालमात्रके ॥ तिथीनां पूज्यता नाम कर्मानुष्ठानतो मता। निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते ॥" एतद्दचनदयं कलञ्जाधिकरण न्यायमल मिति विकृतमेकादशौतत्वे । कर्मानुष्ठानतः कर्मानुष्ठाने वृत्तिः पालनम्। गायवचनोतनिमित्तमित्यत्र विधिनिषेधयोरनुष्ठानाननुष्ठानरूपपालने कालस्य निमित्तत्वेन अभिधानात्। अतःकालं प्रवक्ष्यामि निमित्तं कर्मणामिह"। इति भविष्यपुगणाच। For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy