SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ************************** नाहं निअयगुणेहिं, न तायनामेण नो तुह गुणेहिं । इह विक्खाओ जाओ, अहयं सुसुरस्स नामेणं ॥३४४॥ तं पुण अहमाहमत्तकारणं वज्जिअं सुपुरिसेहिं । तत्तुच्चिय मज्झे मणं, दूमिज्जइ सुसुरवासेणं ॥३४५॥ तो भणि जणणीए, बहुसिन्नं मेलिऊण चउरंगं । गिण्हसु निअपिअरज्जं, मह हिययं कुणसु निस्सलं ॥३४६॥ कुमरेणुत्तं सुसुरय-बलेण जं गिण्हणं सरज्जस्स । तं च महच्चिअ दूमइ, मझं चित्तं धुवं अम्मो! ॥३४७॥ इह-अस्मिन्नगरेऽहं निजकगुणैः-स्वकीयगुणैर्विख्यातः-प्रसिद्धो न जातोऽस्मि, न तातनाम्ना-पितृनाम्ना विख्यातो जातोऽस्मि, नो पुनः तव गुणैर्विख्यातो जातोऽस्मि, किन्तु अहं श्वशुरस्य नाम्ना विख्यातो जातोऽस्मि ॥३४४॥ तत्पुनःश्वशुरनाम्ना विख्यातभवनं अधमाधमत्वस्य कारणमस्ति, अत एव सुपुरुषैर्वर्जितं तत एव श्वशुरवासेन-श्वशुरगृहनिवासेन मम मनो दूयते-सन्तप्तं भवति-"उत्तमाः स्वगुणैः ख्याताः, मध्यमाश्च पितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरैश्चाधमाधमाः" ॥१॥ इति वचनात् ॥ ३४५॥ ततो जनन्या-मात्रा भणितं-हे पुत्र ! चत्वारि अङ्गानि यस्य तच्चतुरङ्गं-हस्त्यश्वादिरूपं बहुसैन्यं मेलयित्वा निजपितुः राज्यं गृहाण, मम हृदयं निःशल्यं कुरु ॥३४६॥ कुमारेणोक्तं हे मातः ! श्वशुरस्य बलेन यत् स्वराज्यस्य ग्रहणं तच्च ध्रुवं-निश्चितं महदेव मम चित्तं 'दुमेइत्ति दूनं करोति - दूनयति, सन्तापयतीत्यर्थः ॥३४७॥ ****-*-*-*-*-*-*--*************** **** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy