SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * सि रि सि रि वा ल 18 he क हा ७३ * * * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इच्चाइ चिंतयंती, जा वच्चइ अग्गओ पभायंमि । ता फिट्टाए मिलियं, कुट्ठियनरपेडयं एगं ॥२९९॥ तं दट्ठूणं कमला, निरुवमरूवा महग्घआहरणा । अबला बालिक्कसुआ, भयकंपिरतणुलया रुयइ ॥ ३००॥ तं रुयमाणिं दठ्ठे, पेडयपुरिसा भणंति करुणाए । भद्दे ! कहेसु अम्हं, काऽसि तुमं कीस बीहेसि ॥३०१ ॥ ती निबंधूण व, कहिओ सब्वोऽवि निययवुत्तंतो । तेहिं च सा सभइणिव्व सम्ममासासिआ एवं ॥३०२॥ इत्यादि चिन्तयन्ती यावत् अग्रतो व्रजति तावत् प्रभाते प्रभातसमये एषां कुष्ठिकनराणां पेटकं वृन्दं फिट्टाए' त्ति अपर्यालोचनया मिलितम् ॥ २९९॥ तं कुष्ठिकनरवृन्दं दृष्ट्वा भयेन कम्प्रा-कम्पनशीला तनुलता-देहयष्टिर्यस्याः सा एवंविधा सती कमलप्रभा रोदिति, कीदृशी सा ? - निरुपमं अद्भुतं रूपं यस्याः सा निरुपमरूपा, पुनः कीदृशी ? - महार्घाणि - बहुमुल्यानि * आभरणानि आभूषणानि यस्याः सा पुनः अबला न विद्यते बलं यस्याः सा, स्त्रीत्वादल्पबलेत्यर्थः, पुनर्बाल:- शिशुः एकः * सुतो यस्याः सा तथोक्ता ॥ ३००॥ तदा पेटकपुरुषाः कुष्ठिवृन्दमनुष्यास्तां राज्ञीं रुदतीं दृष्ट्वा करुणया - अनुकम्पया भणन्ति, * किं भणन्तीत्याह- हे भद्रे ! त्वमस्मभ्यं कथय त्वं काऽसि ? तथा कथं बिभेषि भयं प्राप्नोषि ? ॥३०१ ॥ ततस्तया राज्ञया निजबन्धुभ्यो-निजभ्रातृभ्य इव सर्वोऽपि निजकवृन्तान्तः कथितः, तेभ्य इति शेषः, तैश्च सा राज्ञी स्वभगिनी इव - निजस्वसा इव एवं वक्ष्यमाणप्रकारेण सम्यग् आश्वासिता ॥ ३०२ ॥ For Private and Personal Use Only *******
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy