SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir भल ३ अरिहं सिद्धगणीणं, गुरुपरमादिट्ठणंतसुगुरूणं । दुरणंताणं गुरूण य, सपणवबीयाओं ताओ य ॥२०२॥ रेहादुगकयकलसा-गारामिअमंडलंव तं सरह । चउदिसि विदिसि कमेणं,जयाइजंभाइकयसेवं ॥२०३॥ सिरिविमलसामिपमुहाहिट्ठायगसयलदेवदेवीणं । सुहगुरुमुहाओं जाणिअ, ताण पयाणं कुणह झाणं ॥२०४॥ अथाष्टगुरुपादुका एवाह- अर्हतां पादुकाः १, सिद्धानां पादुकाः २, गणीनां -आचार्याणां ३, गुरूणां-पाठकानां ४, परमगुरूणां ५, अदृष्टगुरूणाम् ६, अनन्तगुरुणाम् ७, दुरणंताणं ति-अनन्तानन्तगुरूणां च ८, इत्येवमष्टानामपि ताः-पादुकाः सप्रणवबीजाः-प्रणवबीजाभ्यां सहिताः ॐ ह्रींयुता इत्यर्थः, ॐ हीं अर्हत्पादुकाभ्यो नमः इत्थं सर्वा अपि लिखेत् ॥२०२॥ रेखाद्विकेन यन्त्रोप्रभागाद्वामदक्षिणनिर्गतान्योऽन्यग्रथितप्रान्तरेखाद्विकेन कृतं यत्कलशाकारम् अमृतमण्डलं तद्वत् स्मरतकलशाकारं लिखेदित्यर्थः, किंविशिष्टं तत् ? -चतुर्दिक्षु विदिक्षु च क्रमेण जयादिकाभिः चतसृभिः जया - विजया - जयन्त्यपराजिताभिः तथा जम्भादिभिर्जम्भा - षम्भा - मोहा - गन्धाभिः कृता सेवा यस्य तत्, तत्र जयादिकाश्चतस्रः क्रमेण पूर्वादिदिक्षु जम्भादिका आग्नेय्यादिषु विदिक्षु लिखेत् ॥२०३॥ श्रीविमलस्वामीति नाम्ना सौधर्मदेवलोकवासी श्रीसिद्धचकस्याधिष्ठायकः तत्प्रमुखा येऽधिष्ठायका सकलाः- समस्ता देवा देव्यश्चक्रेश्वर्याद्याः तासां ध्यानं सुगुरुमुखात् ज्ञात्वा 'ताण'त्ति तत्सम्बन्धिनां 'पयाणंति मन्त्रपदानां ध्यानं यूयं कुरुत, एतेषां नामानि कलशाकारस्योपरि सर्वतो लिखेत्, ॐ ह्रीं विमलस्वामिने नमः इत्यादि लिखेदित्यर्थः ॥२०४॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy