SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir * ** 22 * ** * * तो तीए मयणाए, नयणंसुयनीरकलुसवयणाए । पइपाएसु निवेसिअ-सिराइ भणिअं इमं वयणं ॥१६६॥ सामिअ ! सब् मह आइसेसु किंचेरिसं पुणो वयणं । नो भणियध्वं जं दूहवेइ मह माणसं एयं ॥१६७॥, अन्नं च- पढमं महिलाजम्मं, केरिसयं तंपि होइ जइ लोए। सीलविहूणं नूणं, ता जाणह कजिअं कुहिअं॥१६८॥ सीलं चिअ महिलाणं, विभूसणं सीलमेव सब्वस्सं । सीलं जीवियसरिसं, सीलाउ न सुंदरं किंपि ॥१६९॥ ततस्तदनन्तरं तया-मदनसुन्दO इदं-वक्ष्यमाणं वचनं भणितम्-उक्तं, कीदृश्या तया?-नयनयोः-चक्षुषोर्यत् अश्रुनीरंअश्रुजलं तेन कलुषं-गडुलं वदनं-मुखं यस्याः सा तथा तया । पुनः कीदृश्या ? पत्युः-भर्तुः पादयोः-चरणयोर्निवेशितं-स्थापितं शिरो-मस्तकं यया सा तया । किं भणितमित्याह-॥१६६॥ हे स्वामिन् ! मह्यं अन्यत् सर्वं कार्यम् आदिश-अनुजानीहि, किन्तु ईदृशं वचनं पुनर्नो भणितव्यं-न कथनीयं, कथमित्याह- यद्यस्मात्कारणात् एतद्वचनं मम मानसं दुःखापयति-यतः दुःखितं करोतीत्यर्थः ॥१६७॥ अन्यच्च-अन्यदपि सा भणति, प्रथमं महिलाजन्म-स्त्रीजन्म कीदृशम् ? अशुद्धमेवेति भावः । तदपि स्त्रीजन्म यदि लोके शीलविहीनं-ब्रह्मचर्यरहितं भवति तत्तर्हि नून-निश्चितं कुथितं काचिकम-आरनालं यूयं जानीत, तत्सदृशं अतीवाशुद्धमिति भावः ॥१६८॥ यतो महिलानां-स्त्रीणां शीलमेव विभूषणम्-आभरणमस्ति, तथा-शीलमेव सर्वस्वंसर्वसारमस्ति, पुनः स्त्रीणां शीलं जीवितसदृशं-जीवितव्यतुल्यं वर्तते, तासांशीलात् अधिकं सुन्दरं-रम्यं किमपि नास्ति ॥१६९॥ ** ** *** * hot ** * *** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy