SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि अ अ श्र हा २७४ * * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गयरहसहस्सनवगं, नव लक्खाइं च जच्चतुरयाणं । पत्तीणं नवकोडी, तस्स नरिंदस्स रज्जंमि ॥१२१४ ॥ एवं नवनवलीलाहिं चेव सुक्खाणि अणुहवंतो सो। धम्मनीईइ पालइ, रज्जं निक्कंटयं निच्वं ॥१२१५॥ रज्जं च तस्स पालंतयस्स सिरिपालनरवरिंदस्स । जायाई जाव सम्मं, नव वाससयाई पुन्नाई ॥१२१६ ॥ ताव निवो तं तिहुअणपालं रज्जंमि ठावइत्ताणं । सिरिसिद्धचक्कनवपयलीणमणो संथुणइ एवं ॥१२१७॥ सतिभवेहिं मणुएहिं जेहिं विहियारिहाइठाणेहिं । अज्जिज्जइ जिणगुत्तं, ते अरिहंते पणिवयामि ॥१२१८॥ तस्य श्रीपालस्य नरेन्द्रस्य-राज्ञो गजानां हस्तिनां रथानां च प्रत्येकं सहस्रनवकमासीत्, नव सहस्राणि गजाः नव सहस्राण्येव रथाश्चासन्नित्यर्थः, च पुनः जात्यतुरगाणां-सुलक्षणाश्वानां नव लक्षाणि आसन्, पत्तीनां पदातीनां नवकोटय आसन् ॥ १२१४ ॥ एवम् अमुना प्रकारेण नवनवलीलाभिः- नवनवक्रीडाभिरेव सुखानि अनुभवन् स श्रीपालो धर्मनीत्याधर्मन्यायेन नित्यं निष्कण्टकं राज्यं पालयति ॥ १२१५ ॥ राज्यं पालयतस्तस्य च श्रीपालनरवरेन्द्रस्य यावन्नववर्षशतानि सम्यग् पूर्णानि जातानि ॥ १२१६ ॥ तावन्नृपः श्रीपालस्तं पूर्वोक्तं त्रिभुवनपालं- स्वज्येष्ठपुत्रं राज्ये स्थापयित्वा श्रीसिद्धचक्रे यानि नवपदानि तेषु लीनं लग्नं मनो यस्य स सिद्धचक्रनवपदलीनमनाः सन् एवं वक्ष्यमाणप्रकारेण संस्तौति ॥ १२१७ ॥ शेषाः अवशिष्टास्त्रयो भवा येषां ते पुनर्विहितानि - कृतानि सेवितानीति यावत् अर्हदादिस्थानानि विंशतिस्थानकानि यैस्ते तथा तैः, एवंभूतैर्यैर्जिनगोत्रं - जिननामकर्म अर्ज्यते-उपार्ज्यते तान् अर्हतोऽहं प्रणिपतामि- नमस्कुर्वे ॥ १२१८ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy