SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie आसन्नसेवयाणं, देवीणं बारस य बयंगाई । विज्जसुरिजक्खजक्खिणि- चउसट्ठिपएसु पूगाई ॥११९८॥ पीअबलीकूडाइं चत्तारि दुवारपालगपएसु । कसिणबलीकूडाई, चउवीरपएसु ठविआई ॥११९९॥ नवनिहिपएसु कंचणकलसाइं विचित्तरयणपुन्नाइं । गहदिसिवालपएसु अ, फलफुल्लाइं सवन्नाई ॥१२००॥ इच्चाइगुरुअवित्थर-सहि मंडाविऊणमुज्जमणं । ण्हवणूसवं नरिंदो, कारावइ वित्थरविहीए ॥१२०१॥ तथा-आसन्नसेवकानां-निकटसेवाकारिकाणांद्वादशदेवीनांद्वादश च वयङ्गानि-फलविशेषान्स्थापयति, चतुर्थाधिष्ठायकस्य द्वादशदेवीनां च नामानि न ज्ञायन्ते, तथाविधसम्प्रदायाभावात्, तथा 'विज्जसुरि' त्ति विद्यादेव्यः षोडश यक्षाश्चतुर्विंशतिः शासनसुराः यक्षिण्यश्चतुर्विंशतिरेव शासनदेव्यः एवमेतेषु चतुष्पष्टिपदेषु पूगानि-क्रमुकफलानि स्थापयति ॥११९८॥ चतुर्यु द्वारपालकपदेषु कुमुदादिषु चत्वारि पीतस्य-पीतवर्णस्य बलेः-पक्वान्नादेः कूटानि-पुजानि स्थापितानि, तथा चतुर्युवीरपदेषुमाणिभद्रादिषु कृष्णवर्णस्य बलेः-पक्वान्नादेः कूटानि स्थापितानि ॥११९९ ॥ नवनिधिपदेषु विचित्रै रत्नैः पूर्णानि-भृतानि काञ्चनस्य-सुवर्णस्य कलशानि स्थापितानि, तथा ग्रहपदेषु दिक्पालपदेषु च स्वस्ववर्णानि फलपुष्पाणि स्थापितानि ॥ १२०० ॥ इत्यादिना गुरुकेण-महता विस्तारेण सहितमुद्यापनं मण्डयित्वा नरेन्द्रो-राजा श्रीपालो विस्तारविधिना स्नपनोत्सवं-स्नात्रमहोत्सवं कारयति ॥ १२०१॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy