SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir **************************** नरवइदिन्नावास, सुक्खनिवासे रहेइ जा कुमरो । ता माउलनिवपुरिसा, तस्साणयणस्थमणुपत्ता ॥८९३॥ कुमरो निअरमणीणं, आणयणत्थं च पेसए पुरिसे । ताओवि सुंदरीओ, सबंधुसहियाउ पत्ताओ ॥८९४॥ मिलिअं च तत्थ सिन्नं, हयगयरहसुहडसंकुलं गरुयं । तेण समेओ कुमरो, पत्तो ठाणाभिहाणपुरं ॥८९५॥ आणंदिओ अ माउलराया तस्सुत्तमं सिरिं दर्छ। सुंदरिचउक्कसहिअं, दळूण पइं च मयणाओ॥८९६॥ सुखः-सुखकारी निवासो यस्मिन् स सुखनिवासस्तस्मिन् नरपतिना-राजा दत्ते आवासे यावत् कुमारो रहेइत्ति-तिष्ठति तावन्मातुलनृपस्य-वसुपालराजस्य पुरुषाः-सेवकास्तस्य-कुमारस्यानयनार्थम्-आकारणार्थमनुप्राप्ताः ॥ ८९३ ॥ कुमारश्च निजरमणीनां-स्वस्त्रीणामानयनार्थं पुरुषान् प्रेषयति, ता अपि सुन्दर्यो-नार्यः स्वैः-स्वकीयैर्बन्धुभिः-भ्रातृभिः सहिताः प्राप्ताः, तत्रागता इत्यर्थः ॥ ८९४॥च - पुनः तत्र गुरुकं-महत्सैन्यं मिलितम् - एकत्रीभूतं, कीदृशं सैन्यं ?-हयगजरथसुभटैः सङ्कुलंव्याप्तं, तेन सैन्येन समेतः सहितः कुमारः स्थानाभिधानं-स्थानाख्यं पुरं प्राप्तः॥८९५॥ च - पुनः मातुर्भ्राता मातुलो राजा वसुपालस्तस्य कुमारस्य उत्तमां श्रियं दृष्ट्वा आनन्दित-आनन्दं प्राप्तः, च - पुनः मदना-मदनसेनाद्याः कुमारस्त्रियः सुन्दरीचतुष्कसहितं-चतसृभिः सुन्दरीभिर्युक्तं पति-भर्तारं दृष्ट्वा आनन्दिताः ॥ ८९६ ॥ ******************* २०१ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy