SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क हा १९९ * * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं सोऊणमिमीए, नरवर ! तुह नंदणाइ सहसत्ति । बहुलोयाण समक्खं, इमा पइन्ना कया अत्थि ॥८८३॥ जो कि मह दिट्ठीए, राहावेहं करिस्सए कोऽवि । तं चैव निच्छएणं, अहं वरिस्सामि नररयणं ॥ ८८४ ॥ एआइ पइन्नाए, नज्जइ पुरिसुत्तमस्स कस्सावि । नूणं इमा भविस्सइ, पत्ती धन्ना सुकयपुन्ना ॥८८५॥ ता तुज्झेऽवि नरेसर !, एवं चिंतं चएवि वेगेण । कारेह वित्थरेणं, राहावेहस्स सामग्गिं ॥ ८८६ ॥ तं च तहा मंडाविअ, रन्नावि निमंतिया नरिंदा य । परमिक्केणवि केणवि, राहावेहो न सो विहिओ ॥८८७॥ ततः राधावेधस्वरूपं श्रुत्वा हे नरवर हे महाराज ! अनया त्वत्पुत्र्या सहसा अकस्मात् बहुलोकानां समक्षं- प्रत्यक्षमियं प्रतिज्ञा कृताऽस्ति, पूर्वार्द्धान्त इतिशब्दः पादपूरणे ॥ ८८३ ॥ केयं प्रतिज्ञेत्याह- यः किल कोऽपि पुमान् मम दृष्टौ मम नेत्रागतो राधावेधं करिष्यते तमेव नररत्नं निश्चयेन अहं वरिष्यामि भर्तृत्वेनाङ्गीकरिष्यामि ॥ ८८४ ॥ एतया प्रतिज्ञया 'नज्जइ' त्ति ज्ञायते नूनं निश्चयेन इयं भवत्पुत्री कस्यापि पुरुषोत्तमस्य - उत्तमनरस्य पत्नी भार्या भविष्यति, कीदृशी इयं ?-धन्या, पुनः सुष्ठु कृतं पुण्यं यया सा सुकृतपुण्या ॥ ८८५ ॥ तत्-तस्मात्कारणात् हे नरेश्वर ! यूयमपि एवं पूर्वोक्तप्रकारां चिन्तां त्यक्त्वा वेगेन राधावेधस्य सामग्री विस्तारेण कारयत ॥ ८८६ ॥ तां च राधावेधसामग्री तथा तेन प्रकारेण मण्डयित्वा राज्ञापि नरेन्द्राश्च निमन्त्रिता - आहूताः परमेकेनापि राज्ञा स राधावेधो न विहितो न कृतः ॥ ८८७ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy