________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
****
*-*-*-*-*-*-*************
पुढो पुणोवि तेहिं, का सा तुह माणसी महापीडा ? । तो सो कहेइ सब्द, तं निअयं चिंतिअं दुटुं ॥६११॥ तं निसुणिऊण तेवि हु, भणंति चउरोऽवि मित्तवाणिअगा। हहहा किमियं तुमए, भणि कन्नाण सूलसमं ?॥६१२॥ अन्नस्सवि धणहरणं, न जुज्जए उत्तमाण पुरिसाणं । जं पुण पहुणो उवयारिणो अ तं दारुणविवागं ॥६१३॥ इअरित्थीणवि संगो, उत्तमपुरिसाण निंदिओ लोए । जा सामिणीइ इच्छा, सा तक्खय-सिरमणिसरिच्छा ॥ ६१४
ततस्तैः पुनरपि पृष्टः सा तव मानसी-मनसि भवा महापीडा का ?, ततः स-धवलस्तत्सर्वं निजकं स्वकीयं दुष्टं चिन्तितं कथयति ॥ ६११॥ तद्ववलचिन्तितं श्रुत्वा ते चत्वारोऽपि मित्रवाणिजका भणन्ति-जल्पन्ति, किं भणन्तीत्याह-हहहा इति खेदे, त्वया कर्णानां शूलसमं-शूलतुल्यं किमिदं भणितम्-उक्तम् ॥ ६१२ ॥ उत्तमानां पुरुषाणां अन्यस्यापि कस्यचिल्लोकस्य धनहरणं-द्रव्यापहरणं न युज्यते, यत्पुनः प्रभोः-स्वामिनः उपकारिणश्च धनहरणं तद् दारुणो-भयानको विपाकः-फलानुभवो यस्य तत्तादृगस्ति ॥६१३ ॥ उत्तमपुरुषाणां इतरस्त्रीणां-अन्यसामान्यलोकस्त्रीणामपि सङ्गः-संयोगो लोके निन्दितोऽस्ति, या पुनः स्वामिन्या इच्छा-अभिलाषः सा तक्षकस्य-नागराजस्य यो शिरसो मणिस्तत्सदृक्षा-तत्तुल्येत्यर्थः महादुःखदायित्वात् ॥ ६१४॥
********************************
For Private and Personal Use Only