________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
भक
धम्मो जिणेहिं कहिओ, तत्ततिगाराहणामओ रम्मो । तत्ततिगं पुण भणिअं, देवो अ गुरू अ धम्मो अ॥५६०॥ इक्विकस्स उ भेआ नेया कमसो दु तिन्नि चत्तारि । तत्थरिहंता सिद्धा, दो भेआ देवतत्तस्स ॥५६१॥ आयरिअउवज्झाया, सुसाहुणो चेव तिन्नि गुरुभेआ । दसणनाणचरित्तं, तवो अ धम्मस्स चउभेआ ॥५६२॥ एएसु नवपएसुं, अवयरिअं सासणस्स सव्वस्सं । ता एयाइं पयाई, आराहह परमभत्तीए ॥ ५६३॥
जिनैस्तत्त्वत्रिकस्य आराधना स्वरूपमस्येति तत्त्वत्रिकाराधनामयो रम्यो-मनोज्ञो धर्मः कथितः, तत्त्वत्रिकं पुनर्भणितं देवश्च गुरुश्च धर्मश्च-देवतत्त्वं १ गुरुतत्त्वं २ धर्मतत्त्वं ३ चेत्यर्थः॥५६०॥तु-पुनः एकैकस्य तत्त्वस्य क्रमेण द्वौ त्रयश्चत्वारश्च भेदा ज्ञेयाः, देवतत्त्वस्य द्वौ भेदौ गुरुतत्त्वस्य त्रयो भेदाः धर्मतत्त्वस्य चत्वार इत्यर्थः, तत्र देवतत्त्वस्य द्वौ भेदौ अर्हन्तः १ सिद्धाश्च २॥५६१॥ आचार्या १ उपाध्यायाः २ सुसाधव ३श्चैव एते त्रयो गुरुतत्त्वस्य भेदाः, तथा दर्शन-सम्यक्त्वं १ ज्ञानतत्त्वावबोधः २ चारित्रं-विरतिरूपं ३ तपश्च-अनशनादि ४ एते धर्मतत्त्वस्य चत्वारो भेदाः ॥ ५६२ ॥ एतेषु नवपदेषु जिनशासनस्य सर्वस्वं-सर्वसारमवतीर्णमस्तीति शेषः, ततः-तस्मात् भो भो भव्या ! यूयमेतानि पदानि परमभक्त्या आराधयतसेवध्वम् ॥ ५६३ ॥
************************
For Private and Personal Use Only