________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
************************
| तो तं कुणसु महायस !, जिणभवणुग्घाडणं तुरियमेव । उग्घडिए तंमि जओ, अम्हाणवि उग्घडइ पुन्नं ॥५३१॥ तत्तो कुमरो तुरिअं, तुरयारूढो पयंपए सिढेि । आगच्छसु ताय ! तुमंपि जिणहरं जेण गच्छामो ॥५३२॥ तो सिट्टी कुमरं पइ, जंपइ तुब्भे अवेयणा जेण । भुंजह अणज्जियं चिय, निच्चं निक्खीणकम्माणो ॥५३३॥ नूणं तुम्हाणंपिव, अम्हेवि न तारिसा इहच्छामो । गच्छ तुम चिय अम्हे, नियकज्जाइं करिस्सामो ॥५३४॥ ततो धवलं मुत्तूणं, अन्नो सब्बोऽवि सत्थपरिवारो। चलिओ कुमरेण समं, पत्तो जिणभवणपासंमि ॥५३५॥
तत्-तस्मात्कारणात् हे महायशः - हे महायशस्विन् ! त्वं जिनभवनस्य-जिनगृहस्य उद्घाटनं त्वरितं-शीघ्रमेव कुरुष्व, यतस्तस्मिन् जिनगृहे उद्घटिते सति अस्माकमपि पुण्यं उद्घटते ॥ ५३१॥ ततः कुमारस्तुरगारूढः सन् त्वरितं-शीघ्रं धवलश्रेठिनं प्रजल्पति-कथयति, किंजल्पतीत्याह- हे तात ! त्वमपि आगच्छ येन जिनगृहं गच्छामः ॥ ५३२॥ ततः श्रेष्ठी कुमारं प्रति जल्पति, यूयं अवेदनाः स्थ, न विद्यते वेदन- विचारणं येषां ते ईदृशा इत्यर्थः, कथमित्याह- येन कारणेन यूयं नित्यं निश्शेषेण क्षीणकर्म- कार्यं येषां ते निःक्षीणकर्माणः सन्तोऽनर्जितमेव भुग्ध्वं-अभ्यवहरत ॥५३३॥ नूनं - निश्चितं यूयमिव-भवद्वत् वयमपि इह-अस्मिन् स्थानेऽवसरे वा तादृशा निःक्षीणकर्माणोऽनर्जितभोक्तारोन तिष्ठामः तस्मात्त्वमेव गच्छ, वयं निजकार्याणि करिष्यामः ॥५३४॥ ततो धवलं मुक्त्वा-त्यक्त्वाऽन्यः सर्वोऽपि सार्थपरिवारः कुमारेण सम-सार्द्ध चलितः सन् जिनभवनस्य-जिनगृहस्य पार्श्वे प्राप्तः ॥५३५॥
For Private and Personal Use Only