________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
********************************
कुमरेणुत्तं मह तायतुल्ल ! तुह जीवणेण नो कज्जं । किंतु अहं देसंतरगंतुमणो एमि तुह सत्थे ॥४२१॥ जइ भाडएण चडयं, देसि ममं हरिसिओ तओ सिट्ठी । मग्गेइ भाडयं पइमासं दीणारसयमेगं ॥४२२॥ तं दाऊणं चडिए, कुमरे मूलिल्लवाहणे तस्स । भेरीउ ताडियाओ, पत्थाणे रयणदीवस्स ॥ ४२३॥ हक्कारिज्जति सढे तह वडिज्जति सिक्कियाओ अ । चालिज्जंते सुक्काणयाइं आउल्लयाई च ॥४२४॥
तदा कुमरेणोक्तं-हे ताततुल्य !- हे पितृसदृश ! तव जीवनेन-तव पार्श्वे जीविकाद्रव्यग्रहणेन मम कार्यं नो अस्ति, किन्तु अहं देशान्तरे गन्तुं मनो यस्य स देशान्तरगन्तुमनाः सन् तव सार्थे एमि-आगच्छामि ॥४२१॥ यदि भाटकेन मह्यं चटनं-प्रवहणे आरोहणं ददासि तर्हि त्वत्सार्थे आगच्छामीति भावः, ततः-तदनन्तरं श्रेष्ठी हर्षितः सन् मासं मासं प्रतीति प्रतिमासमेक दीनाराणां शतं भाटकं मार्गयति ॥४२२॥ तद्भाटकं दत्त्वा श्रीपालाख्ये कुमारे तस्य श्रेष्ठिनो मूलवहने-प्रधानयानपात्रे चटितेआरूढे सति रत्नद्वीपस्य प्रस्थाने-रत्नद्वीपाभिमुखचलनार्थं भेर्य्यस्ताडिता-वादिता इत्यर्थः ॥४२३॥ तदा सढावस्त्रमयपोतोपकरणविशेषा वायुपूरणार्थे पोतोपरि हक्कार्यन्ते-ऊर्ध्वं प्रसार्यन्ते, तथा शिक्यान्येव शिक्यिका-रज्जुमय्य आरोहणार्थोपकरणविशेषाः वय॑न्ते-विस्तार्यन्ते, तथा सुक्कानकानि-पोताग्रभागव!र्ध्वकाष्ठानि चाल्यन्ते-स्फोर्यन्ते, च-पुनः आउल्लकानि-काष्ठमयचालनोपकरणानि चाल्यन्ते ॥४२४॥
***********************
For Private and Personal Use Only