SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir * * * ** * ** *** *************************** सो सिरिपालो चउहट्टयंमि लीलाइ संनिविट्ठोवि । धवलभडेहिं उमडसत्थेहिं झत्ति अक्खित्तो ॥ ३९६॥ रेरे तुरिअं चल्लसु, स्टो तुह अज्ज धवलसत्थवई । तं देवयाबलीए, दिज्जसि मा कहसि नो कहिअं॥३९७॥ कुमरेणुत्तं रेरे, देह बलिं तेण धवलपसुणावि । पंचाणणेण कथवि, किं केणवि दिज्जए हु बली ? ॥३९८॥ तत्तो पयडंति भडा, किंपि बलं जाव ताव कुमरकयं । सोऊण सीहनायं, गोमाउगणुब्ब ते नट्ठा ॥३९९॥ धवलस्स पेरिएणं, रन्नावि हु पेसियं नियं सिन्नं । तंपि हु कुमरेण कयं, हयप्पयावं खणद्धेणं ॥४००॥ तदास श्रीपालश्चतुष्पदे-वणिग्मार्गे लीलया सन्त्रिविष्टोऽपि-आसीनोऽपि उद्भटशस्त्रैः-उत्पाटितायुधैर्धवलस्य भटैझटितिशीघ्रं आक्षिप्त-आ समन्तात्प्रेरितः ॥३९६॥ कथमाक्षिप्त ? इत्याह- रेरे त्वरितं-शीघ्रं त्वं चल, अद्य तवोपरि धवलसार्थपतिः रुष्टोऽस्ति, त्वं देवताया बलौ दास्यसे, न कथितमिति मा कथयेः ॥३९७॥ तदा कुमरेणोक्तं- रेरे पामराः तेन धवलपशुना एव बलिं दत्त, यो धवलाख्यो भवत्स्वामी स एव पशुस्तेनैव देवतायै बलिं दत्तेत्यर्थः, परं पञ्चाननेन-सिंहेन किं कुत्रापि केनापि नरेण हु-निश्चितं बलिर्दीयते ?, सिंहेन बलिः केनापि क्वापि न दीयते इत्यर्थः ॥३९८॥ ततः - तदन्तरं यावद्भटाः किमपि बलं प्रकटयन्ति-प्रकटीकुर्वन्ति तावत् कुमारेण कृतं कुमारकृतं सिंहनादं श्रुत्वा ते धवलभटा गोमायुगणः-शृगालसमूह इव नष्टाःपलायिताः॥३९९॥धवलप्रेरितेन राज्ञाऽपि निजं-स्वकीयं सैन्यं प्रेषितं-धवलकार्यसिद्ध्यर्थं मुक्तं, तदपि सैन्यं कुमारेण क्षणार्धनअर्धक्षणमध्ये हतः प्रतापो यस्य तत् हतप्रतापं कृतम् ॥४००॥ ** * ** * * * * * For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy