SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ED सिद्धान्तकौमुदी [ हल्सन्धि मोऽनुस्वारः ॥२३॥ मान्तस्य पदस्यानुस्वारः स्यादलि । 'अलोऽन्त्यस्य' (सू ४२) । हरिं वन्दे । 'पदस्य' इति किम् । गम्यते । (१२३) नश्वापदान्तस्य झलि ३।२४॥ नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यासि । माक्र. स्यते । 'झलि' किम् । मन्यते। (१२४) अनुस्वारस्य ययि परसवर्णः दा ॥ स्पष्टम् । अङ्कितः । अश्चितः । कुण्ठितः । शान्तः । गुम्फितः । 'कुर्व मोऽनुस्वारः । पदस्येत्यधिकृतम् । म इति षष्ठ्यन्तं पदस्य विशेषणं तदन्तविधिः । हलि सर्वेषामित्यतो हलीत्यनुवर्तते । तदाह-मान्तस्येत्यादिना। अलोऽन्त्यस्येति । उप. तिष्ठत इति शेषः । ततश्च मान्तस्य पदस्य यः अन्त्यः अल तस्येत्यर्थः । पदान्तस्य मस्येति फलितम् । हरिं वन्द इति । हरिम् वन्द इति स्थिते मस्यानुस्वारः। गम्यत इति । गम्लु गतौ । कर्मणि लट् । 'भावकर्मणोः इत्यात्मनेपदे यक् । अत्र मस्य पदा. न्तत्वाभावान्नानुस्वारः। नश्वापदान्तस्य झलि। चकारान्मस्येत्यनुकृष्यते, अनुस्वार इति च । तदाह-नस्येत्यादिना। यशांसीति । यशशब्दात् जस्, जश्शसोविशः । 'नपुंसकस्य झलचः' इति नुम् । सान्तमहत इति दीर्घः। यशान् सि इति स्थिते नकारस्य अनुस्वारः । आक्रस्यत इति । क्रमु पाद विक्षेपे। आपूर्वात् कर्तरि लुट् । 'आङ् उद्गमने' इति तङ्, स्यतासी ललुटोरिति स्यः। स्नुक्रमोरिति नियमान्नेट् । आक्रम् स्य त इति स्थिते मस्य अपदान्तत्वात् पूर्वेणाप्राप्ते वचनम् । मन्यत इति । कर्मणि लट् । तङ्यक् । अत्र मस्य झल्परकत्वाभावामानेनानुस्वारः । अपदान्त. त्वाचन पूर्वेण । अनुस्वारस्य ययि । स्पष्टमिति । अनुवयंपदान्तराभावादिति भावः । अकृित इति। अन्क पदे लक्षणे चेति चुरादौ नोपधः। नश्चापदान्तस्येति कृतानुस्वारस्य निर्देश इति केचित् । ण्यन्तात् क्तः, इट् । निष्ठायां सेटीति णिलोपः । अनुस्वा. रस्यानेन परसवर्णः । परनिमित्तमत्र ककारः, तत्सवणः कवर्गः । सः अनुस्वारस्य भवन नासिकास्थानसाम्यात् डकार एव भवति । अञ्चित इति । अन्चु गतिपूजनयोः। नोपधः । तस्मात् क्तः । अञ्चेः पूजायामिति इट् । नाञ्चेः पूजायामिति निषेधात् अनिदितामिति नलोपो न । अत्र नश्चापदान्तस्येत्यनुस्वारस्य परसवर्णो कारः। कुण्ठित इति । कुठि प्रतिघाते इदित्त्वान्नुम् । क्तः इट् । अत्र नश्चेत्यनुस्वारस्य परसवर्णो णकारः । शान्त इति । शम उपशमे । क्तः । वा दान्तशान्तेत्यादिनिपातनान्नेट । अनुनासिकस्य क्वीति दीर्घः। नश्चेति मस्यानुस्वारः। तस्य परसवर्णः नकारः। गुम्फित इति । गुन्फ ग्रन्थे द्वितीयान्तः, नोपधः । क्तः इट् । 'नोपधात्थफान्ताद्वा' इत्यकित्त्वपक्षे नलोपोन । अत्र नश्चेत्यनुस्वारस्य परसवर्णः मकारः। ननु कृषधातोर्लट् , मिः, झोऽन्तः, तनादिकृष्भ्य उः, गुणः, रपरत्वम् । 'अत उत् सार्वधातुके प्रत्ययोकारस्य यण् । न भकुर्छरामिति निषेधात् र्वोरुपधाया इति दी? न। कुवं. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy