SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्किलेखनप्रकारः। 898 स्वस्यैव सत्वेनाऽयप्रवृस्वभावादिति । तदेवमुमशब्दस्य द्विवचने प्रयोगो नास्ति इति फलि. तम् । तदुक्तमुभयशब्दस्य द्विवचनं नास्तीति कैयटः इति । हरदत्तस्तु उमशब्दावस्यन्तस्वार्थि. कायचो द्विवचनपरत्वाभावे एव प्रवृत्तावपि "सखाया अवयवै तयप" इति सूत्रेणोभशब्दात् तयाप्रत्यये तत्स्थाने 'उभादुदात्तो नित्यम्" इति सूत्रविहितायचो द्विवचने परे ततोऽन्यत्र वा प्रवृत्तौ बाधकामावेनायजादेशे स्थानिवद्भावेन तद्धितान्ततया प्रातिपदिकत्वे एकवचनबहुवचन. वत् द्विवचनोस्पत्तः प्रतिबन्धकाभावादुभयशब्दस्य द्विवचनमस्ति इस्याहेति । ४०-दुतरड. तमौ प्रत्ययौ । प्रत्ययग्रहणे तदन्ता माहा।। यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति सुप्लिखन्तमिति ज्ञापकात , तथापि इह तदन्तग्रहणं केवलयोः संज्ञायाः प्रयोजनाभावात् । अयं भावः, सर्वादिगणे उतरतम इति प्रत्ययोग्रहणेन केवलस्य च प्रत्ययस्य प्रयोगाभावे प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्तविषी उतरप्रत्ययान्तडतमप्रत्ययान्तयोः कतरकतमादिशब्दयोरेव सर्वनामसंज्ञा नतु केवलस्तयोः। “संहाविधी प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' पति "मुप्तिचन्तम्" इति सूत्रस्थान्तग्रहणशापितपरिभाषायास्तु नैव प्रवृत्तिः, केवलयोः संशायां फलाभावादिति। ४१-स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम् ? दक्षिणा गाथकाः कुशला इत्यर्थः । भस्यायमभिप्रायः-स्वस्य पूर्वादिशब्दस्याभिधेयेन वाच्यार्थेन निपमेनावविरपेक्ष्यते तादशोर्थों व्यवस्था, सदाचिपूर्वादिशब्दानां सर्वनाम. संशाभवतीति सूत्रार्थः। पूर्वादिशब्दे उच्चारिते कस्मात्पूर्वः करमारपरः कस्माद् दक्षिणः कस्मादुस्तर इति नियमेनावधिसापेक्षोऽर्थ इति यावत्। सूत्र व्यवस्थापदामावे कुशलवाचिदक्षिणशब्दस्य सर्वनामसंशा स्यादिति सूत्रेतग्रहणम् । कृते तु तस्मिन् कुशलार्थस्य कस्मात कुशल इति कदाचिदवध्यपेक्षवेऽपि कुशलमात्रप्रतिपादनेच्छोच्चरितदक्षिणशब्दार्थस्यावध्य पेक्षत्वाभा. वेन नियमेनावधिसापेक्षाकस्वाभावात् सर्वनामसंक्षा न भवतीति 'दक्षिणाः' इत्येकमेव रूपमिति बोध्यम् । -इह समासात्प्रागेन प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथा लौकिके विग्रहवाक्ये इव वत्राप्यकच् प्रवतेत। सच समासेऽपि भूयेत । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । भाष्यकारस्तु स्वत्पितको मकत्पितृक इति रूपे इष्टापत्ति कृत्वैतत्सूत्रं प्रत्याख्यो । यथोत्तरं मुनीनां प्रामाण्यम् । भय. मर्थः-"विभाषा दिकसमासे बहुव्रीहो" इति सूत्राद् 'बहुव्रीहौ' त्यस्यानुवृश्या वहुव्रीहिग्रह णसम्भवेन पुन: सूत्रे बहुव्रीहिग्रहणं बहुव्रीधर्थकल्प्यमानालौकिकप्रक्रियावाक्यपरम् । तथाच बहुबोयर्थकल्प्यमानालौकिकप्रक्रियावाक्यघटकसर्वादः सर्वनामसंशा न भवतीति "न बहुव्रीडो" इति सवस्यार्थः । तेन 'स्वस्कपितृक:' 'मत्कपितृकः' इति बहुव्रीहिसमासस्यालौकिके प्रक्रियावाक्ये 'युष्मत् स् पितृ सू' 'अस्मत् स् पितृ स्' इत्यत्र सर्वनामसंशानिषेधे युष्मदस्मतशम्दयोः कुत्साविशिष्टार्थबोषकत्वविवक्षायां कात्यय एव नवकजिति, ततः "प्रत्ययोत्तरपदयोश्च" इति सूत्रेण स्वमादेशयोः कृतयो: 'स्वस्क सू पितृ स्' 'मत्क स पितृ स्' इति जाते "अनेकमन्यपदार्थ" इति बहुव्रीहिसमासे पश्चात्सुम्लुकि नवृतश्च" इति कपि प्रत्यये 'स्वस्कपितृकः' 'मत्कपितृकः' इति च सिद्धयति। बहुव्रीहिपदस्य मुख्यार्थपरत्वे समासात्प्राक् प्रक्रियावाक्ये 'युष्मत् स् पित For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy