SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ परिशिष्टेइत्यनेन प्रकृतिभावे 'अग्नी ३ इति' सिद्धयति । "अप्लुतवदुपस्थिते" इति सूत्रे प्लुतस्य अप्लु-- तादेशे अलुतबद्भावे वा सन्धिकार्यप्रवृत्तावविशेषाद् वरकरणं वृथेति 'वरिकम्' इति प्रश्नाशयः। वग्रहणाभावे उक्तोदाहरणे प्रगृहशानिमित्तकप्रकृतिभावेन सन्धिकार्याप्रवृत्तेरप्लुतादेशे तच्छवणापत्तिरप्लुतवद्भावे च प्लुतस्याश्रवणमितिविशेषसद्भावारसूत्रे वत्करणमानश्यकमित्युत्तरम् । १४-मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः। ननु "ईद देद् द्विवचनं प्रगृह्यम्" इति सूत्रेण ईकारान्तद्विवचनस्य प्रगृह्यसन्ज्ञा, ततोऽचि परे प्रकृतिभावश्च यथा हरीएतो इत्यत्र भवति तथैव 'मणी-इव' इत्यत्रापि इति कथं 'मगीतोष्टस्य' ते सवर्णतीय इति चेत् ? न, नात्र स्वशब्दः किन्तु इशर्थो वशब्दो वाशब्दो वा । तेनाऽत्र नैव सवर्णदीर्घ इति।१८-मात्किम् ? ममुकेऽन्न । असति मादूग्रहणे एकारोऽप्यनुवतेत । ननु "अदसो मात्" इति सत्रे माद्ग्रहणं किमथम् , माद्ग्रहणाभावे 'अदसः” इति सूत्रमत्वे अदसशब्दावयवदीर्धकारोकारौ प्रगृह्यसन्सकावित्यर्थेन अमू-भासाते श्रमी-ईशाः इत्यादिसिद्धः; इति चेत् १ न, मादग्रहणाभावे "सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः" इति न्यायेन 'इदेद् इति सकलस्यानुवृत्तौ पदसशब्दावयवकारस्यापि प्रगृह्यसन्ज्ञापत्तो 'अमुकेऽत्र' इत्यत्रापि तदापत्तेः।। सति तु माद्ग्रहणे अदसशब्दावयवैकारस्य मकाराव्यवहितोत्तरस्यासम्भवान्न तदनुवृत्तिरिति । १९- अर्थग्रहणं किम् ? वृत्तावान्तरोपसक्रान्ते माभूत् वाप्यामश्वो वाप्यावः । ननु "इदूतौ च सप्तम्यर्थे" इति सूत्रेऽर्थग्रहणं किमर्थम् ? सप्तम्यर्थबोक्कमीकाराममूका. रान्तं वा प्रगृह्यसम्झकमित्यर्थन सिद्धि गच्छता सोमो गौरी अधिश्रितः मामका तनू-इति इत्या. दीनामुदाहरणानां तत्र सूत्रेऽर्थग्रहणाभावेऽपि सप्तम्यन्तमीकारान्तमूकारान्तं वा प्रगृधसम्मक भवतीत्यर्थेन प्रत्ययलक्षणेन सप्तम्यन्तया प्रगृह्यसंज्ञाप्रवृपा सिद्धत्वात् । न च "साविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति" इति तदन्तविधिनिषेधेनोक्तार्थासम्भवः किन्तु ईकाररूपा ऊका. ररूपा या सप्तमी प्रगृह्यसशिकेत्यर्थ इति प्रकृतोदाहरणे ईकारोकाररूपसप्तम्यभावात्तदसिद्धि. रिति वाच्यम् , ययो पपी इत्यादावीकाररूपसप्तम्याः सम्भवेऽपि ऊकाररूपसप्तम्याः कुत्राप्यस. म्भवेनात्र सामर्थ्यात सम्शाविधाविति निषेधाप्रवृत्तिकल्पनेन पूर्वोक्तार्थेन तरिसद्धः इति चेत् ?' मत्रोच्यते, अर्थग्रहणेन सप्तम्यर्थविशेष्यताकोपस्थितिजनकस्यैव ईकारान्तस्य ऊकारान्तस्य वा तत्सन्शाबोधनात् । तथाच समासादिवृत्तौ विशिष्टशक्तिवादिनी विशिष्टार्थस्य वोपस्थितेः पूर्वप दार्थस्य तत्र विशेषणतयोपस्थिती 'वाप्यश्वः' इति समासघटकस्य वापीपदस्थ प्रत्ययलक्षणेन सप्तम्यन्तस्वेऽपि सप्तम्यविशेष्यताको स्थितिजनकत्वाभावेन न प्रगद्यसम्ज्ञा, लेन यप्रवृस्या वाप्यश्वः इति सिद्धयति । अन्यथा प्रगृह्यसन्ज्ञायां यण न स्यादिति । २०-स्थानप्रयत्नाभ्यामन्तरतमे स्पर्श चरितार्थो विधिरय रेफे न प्रवर्तते । चतुर्मुखः । ननु चतुर्-मुख शति स्थिते “यरोऽनुनासिकेऽनुनासिको वा" इति सूत्रेण पदान्तस्य यरो रेफस्य अनुनासिके मुखशब्दावयवमकारे परे अनुनासिको मूर्धस्थानजन्यस्वेन पकारः कुतो नेति चेत् १ अत्रोच्यते, "स्थानेऽन्तरतमः" इति प्रथमान्तपाठे स्थानिन: स्थानेऽन्तरतम एव प्रादेशो भवति नवन्यः इति यथा नियमः तथा भाष्य कृता "स्थानेऽन्तरतमे" इति सप्तम्यन्तपाठं स्वीकृत्य आदेशोऽन्तर For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy