SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dek Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम् । अथ रूपलेखनप्रकारः । अथ परीक्षार्थि छात्राणां लेखसौष्ठव सम्पादनाय तत्तत्प्रकरणस्थानां कतिपयरूपाणां लेखन • प्रकारः प्रदश्यते । अनेनैव प्रकारेणान्येषामपि रूपायां तत्तद्विशेषकार्य प्रदर्शनपुरःसरं लेखनस्याभ्यासेन तत्र विद्यार्थिनः पटुतां समादयितुं प्रभविष्यन्ति । तत्रादौ सूत्राणित दुर्भेदास्तल्ल• क्षणानि चोच्यन्ते सूत्राणि वविधानि सम्झा - परिभाषा - विधि-नियम-अतिदेश- अधिकारमेदात् । तथाचोक्तमभियुकैः H सन्या च परिभाषा च विधिनियम एव च । प्रतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥ तत्र सज्ञासूत्राणि - " वृद्धिरादैच्" "प्रदेङ् गुण" इत्यादीनि । परिभाषासूत्राणि - "इको गुणवृद्धी" "तस्मिन्निति निर्दिष्टे पूर्वस्य" इत्यादीनि विविसूत्राणि - "इको यणति" "एचोऽवचायावः" इत्यादीनि । नियमसूत्राणि - "कृत्तद्धितसमासाश्च" " नलोपः सुप्खरसज्ञातुग्विभिषु कृति" इत्यादीनि । प्रतिदेशसूत्राणि - "स्थानिवदादेशोऽनल्विधौ” "अन्तादिवच्च" हत्यादीनि । अधिकारसूत्राणि - " प्राग्रोश्वरान्निपाताः " " पूर्वत्रासिद्धम्" इत्यादीनि । तत्र विधिसूत्राणि तावन्मुख्यानि तदुपकारकाणि चेतराणीति । तत्र सन्ज्ञाशास्त्राणां विधिसूत्रघटकपदशक्तियह उपयोगः । यथा - " वृद्धिरेचि" इति विधिसूत्र घटकवृद्विपदस्य श्राकार - ऐकार - प्रौकारेषु शक्तिरिति "बुद्धिरादैच्" इति सज्ञासूत्रेणाऽवगम्यते । एवञ्च सम्झासूत्रसाहाय्येन विधिसूत्रेण विधानं भवति । परिभाषासूत्राणां चानियमेन तत्र तत्र प्रसक्तस्य विधिशास्त्रस्य प्रवृत्तिनियम करणे उपयोगः । यथा - "इको यणचि" इत्यस्य सुची उपास्यः इति लक्ष्ये सकारोत्तरे उकारे प्रसक्तिः धकारोत्तर ईकारे परे, एवं धकारोत्तर ईकारे प्रसक्तिः उकारे परे, एवम् उपास्यघटक उकारे प्रसक्तिः पकारोत्तर प्राकारे परे इति एकस्मिन् लक्ष्ये त्रयाणां स्थानेऽनियमेन प्रसक्तस्य यणोऽजव्यवहिते ईकारे एव " तस्मिन्निति निर्दिष्टे पूर्वस्य " इति परिभाषया निर्दिष्टे पूर्वस्य इति पदसमर्पयेन प्रवृत्तिनियम्यते । एवञ्च परिभाषासूत्राणां विधिसूत्रे रेकवाक्यता भवति । 1 विधिसूत्रं तु भपूर्वार्थबोधकम् । यथा 'उप- इन्द्र' इत्यत्र अपूर्वी योऽर्थः एकारस्तस्य अका रेकारयोः निवृत्तिपूर्वकं विधानम् " श्राद् गुणः" इति सूत्रेण क्रियते । तथाच "उपेन्द्रः' इति सिध्यति । नियमसूत्रे च इतर निवृत्तिफलकार्थबोधकम् । यथा "समासाश्च' इति सूत्रं " गामानय' इति वाक्यस्य " राजपुरुषः" इत्यादिसमासस्य चाऽर्थबोधकरवेनोभयत्र पूर्वसूत्रप्राप्तायाः प्रातिपदिकसन्ज्ञायाः 'गामानय' इत्यत्र निवृत्ति करोति । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy