SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र. ४० बालमनोरमासाहता। ८६३ - दविष्ठः । यविष्ठः । हसिष्ठः । क्षेपिष्ठः । क्षोदिष्टः । एवम् ईयस । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् । हसिमा । क्षेपिमा क्षोदिमा। (२०१६) प्रियस्थिरस्फिरोरुबहुलगुम्वद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फाबहिगर्वर्षिचन्द्राघिवृन्दा: हा४१.. ॥ प्रियादोनो क्रमात्पादयः स्युरिष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राषिष्ठः । वृन्दिवः। एवमीयसुन् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात प्रेमा इत्यादि । (.०७) बहोर्लोपो कारः, अवादेश इति भावः । ओगुणस्तु न प्रवर्तते, यणादिलोपस्याभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति । दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे अवादेशः । यविष्ठ इति युवनशब्दादिष्टनि वन्नित्यस्य लोपे उकारस्य गुणे अवादेशः । परमित्यनुक्तौ यु इत्यस्यापि यणादेर्लोपः स्यात् । हसिष्ठ इति । हस्वशब्दादिष्ठनि व इत्यस्य लोपः । परमित्यनुक्तौ अत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति । क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपे इकारस्य गुणः । 'इको गुणवृद्धी' इत्युक्तेः न पकारस्य गुणः । क्षोदिष्ठ इति । क्षुद्रशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयस् इति । स्थवी. यान , देवीयान , यवीयान् , हसीयान, क्षेपीयान् , क्षोदीयान् । इमनिजनुवृत्तेः प्रयो. जनमाह-हम्वक्षिप्रति । प्रियस्थिर प्रियादीनामिति । प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ, वृन्दारक एषां दशानामित्यर्थः । प्रादय इति। 'प्र, स्थ, रूफ, वर, बंहि, गर , वषि, त्रप, द्राधि, वृन्द एते दशेत्यर्थः । इष्ठादिष्विति । इष्ठेमेयस्स्वित्यर्थः । 'तुरिष्ठेमेयासु' इत्यतः तदनुवृत्तेरिति भावः । प्रेष्ठ इति । प्रियशब्दादिष्ठनि प्रकृतेः प्रादेशः । आभो. यत्वेनासिद्धत्वादकारोच्चारणसामर्थ्याच्च न टिलोपः । आद्गुणः । स्थेष्ठ इति । स्थिरगब्दादिष्ठनि प्रकृतेः स्थादेशः । प्रकृतिभावान्न टिलोपः । स्फेष्ठ इति। स्फिरशब्दम्य इष्ठनि स्फादेशः। वरिष्ठ इति । उरुशब्दात् इष्ठनि वर आदेशः । बहिष्ठ इति बहल शब्दस्य बंहि इत्यादेशः । इकार उच्चारणार्थः । अन्यथा आभीयत्वेना. सिद्धत्वात् उच्चारणसामर्थ्याद्वा इकारस्य लोपो न स्यात् । गरिष्ठ इति । गुरुशब्दस्य इष्ठनि गर् आदेशः । वषिष्ठ इति । वृद्धशब्दस्य इष्ठनि वषिरादेशः बंहिवदिकार उच्चारणार्थः । वापिष्ठ इति । तृप्रशब्दस्य इष्ठनि अप आदेशः अदुपधः । तृपधातो. स्तृप्त्यर्थकादौणादिके रकि तृप्रशब्दः। द्रापिष्ट इति । दीर्घशब्दस्य इनि दाधिरा. देशः । बंहिवदिकार उच्चारणार्थः। वृन्दिष्ठ इति । वृन्दारकशब्दस्य इष्ठनि वृन्द आदेशः। अकार उच्चारणार्थः । एवमीयसुन्निति । प्रेयान , स्थेयान् , स्फेयान् , वरीयान् , बंही. यान् . गरीयान् , वर्षीयान् , पीयान् , द्राधीयान् , वृन्दीयान् । अत्र इमनिजनुवृत्तः प्रयोजनमाह-प्रियोरुबहुलेति । इत्यादीति । वरिमा, बंहिमा, गरिमा, द्राधिमा। For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy