SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८२६ Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ तद्धिते आहय वाच्यः' (वा ३०३९ ) । यद्वा द्वयेकयोरितिवत्सङ्ख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः । पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पश्चकः । सूत्रे अष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृथगुपात्तम् । पञ्चकमध्ययनम् । 'स्तोमे डविधिः' (वा ३०४५ ) पञ्चदश मन्त्राः परिमाण. मस्य पञ्चदशः स्तोमः । सप्तदशः । एकविंशः । डप्रत्यये तिलोपः । सोमयागेषु 1 परिमाणमित्यर्थे प्रथमान्तात् सङ्ख्यात्मकपरिमाणवाचिनो यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायां स्वार्थे प्रत्ययो वाच्य इति । पलकाः शकुनय इत्यत्र पञ्च परिमाणमेपामित्यर्थो न सम्भवति, आ दशतः सङ्ख्याः सङ्ख्येये इति पञ्चनुशब्दस्य सत्येय. वृत्तित्वेन पञ्च परिमाणमिति सामानाधिकरण्यानुपपत्तेः । अतः संज्ञायां स्वार्थ एव सङ्ख्यायाः प्रत्यय इति पर्यवस्यतीति भावः । यद्वेति । द्विशब्दस्य एकशब्दस्य च सहयवृत्तिस्येऽपि 'द्वयेकयो:' इति समासवृत्ता येकत्वद्वित्वपरत्वमभ्युपगम्यते । अन्यथा 'द्वयेकयो:' इति द्विवचनानुपपत्तेः । तद्वत्पञ्चकाः शकुनय इति तद्धितवृतावपि पञ्चनूशब्दस्य पञ्चत्वसङ्ख्यापरतया पञ्चत्वं परिमाणमस्येति सामानाधिकरण्यं स्वीकृत्य पञ्चत्ववाचिनः पञ्चशब्दात् पञ्चत्वरूपपरिमाणवति प्रत्ययः उपपद्यत इत्यर्थः । तत्र संज्ञायां स्वार्थे उदाहरति- पश्चैवेति । परिमाणिनि प्रत्ययमुदाहरति - पञ्च परिमाणमिति । पञ्चत्वमित्यर्थः । सङ्घे इति । उदाहरणं वक्ष्यत इत्यर्थः । पञ्चक इति । पञ्चस्वमस्य सङ्घस्य परिमाणमित्यर्थः । सङ्घस्य पञ्चत्वं तु अवयवद्वारा बोध्यम् । सूत्र इति । उदाह्रियत इति शेषः । श्रष्टकं पाणिनीयमिति । सूत्रमिति शेषः । अष्टावध्यायाः परिमाणमस्येति विग्रहः । अत्राष्टत्वं अध्यायद्वारा सूत्रेऽन्वेति । सूत्रशब्दश्च सूत्रसङ्घपरः, एकस्मिन् सूत्रे अष्टकत्वस्यासम्भवात् । नन्वेवं सति सङ्घग्रहणेनैव सिद्धे सूत्र - ग्रहणं व्यर्थमित्यत आह- सङ्घशब्दस्येति । पन्चकमध्ययनमिति । पञ्चावृत्तयः परिमाणमस्येति विग्रहः । स्तोमे डविधिरिति । तदस्य परिमाणमित्यर्थे सङ्ख्यावाचिन उपसङ्ख्यातव्यइति शेषः । सामाधारमन्त्रसमूहे स्तोमशब्दः शक्त इति कैयटः । मनुष्यादिसमूहेतु स्तोमशब्दो लाक्षणिक इति तदाशयः । तदाह - पञ्चदश मन्त्रा इति । पञ्चदशः स्तोम इति । पञ्चदशनूशब्दात् डप्रत्यये 'डे:' इति टिलोपः । सामाधारभूत पञ्चदश मन्त्रसमूह इत्यर्थः । ननु डित्त्वाभावेऽपि 'नस्तद्धिते' इत्येव टिलोपसिद्धेर्डित्वं व्यर्थमित्यत आह- एकविंश इति । एकविंशतिमन्त्राः परिमाणमस्य समूहस्येति विग्रहः । डप्रत्यये इति । 'तिविंशतेर्डिति' इति टिलोप । मीमांसकास्तु पृष्ठरथन्तरादिशब्दवाच्या | प्रगीतमन्त्रसाध्या गुणवत्त्वेन वर्णनात्मिका स्तुतिरेव स्तौमः स एव डप्रत्ययार्थः । प्रगीतपञ्चदशमन्त्रपरिमाणकः स्तोम इत्यर्थः । पञ्चदशत्वसङ्ख्यात्मक परि I For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy