SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ३२] बालमनोरमासहिता। ११ - - षष्ठीतत्पुरुषाद्वहुव्रीहेश्च छ एव । विश्वजनीयम् । 'पञ्चजनादुपसङ्ख्यानम्' (वा २९९६) पञ्चजनीनम् । 'सर्वजनान् खश्च' (वा २९९७)। सार्वजनिकः सर्वजनीनः । 'महाजना' (वा २९९८ )। माहाजनिकः । मातृभोगीणः । पितृभोगौणः । राजभोगीनः । 'आचार्यादणत्वं च' (ग सू १८४) आचार्यभोगीनः । (१६७२ ) सर्वपुरुषाभ्यां णढो पा॥१०॥ 'सर्वाण्णो वेति वक्तव्यम्। (वा २९९९ )। सर्वस्मै हितं सार्वम्-सर्वीयम् । 'पुरुषाद्वधविकारसमूहतेनकृतेषु' (वा ३०००) भाष्य कारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः। पुरुषस्य वधः पौरुषेयः, 'तस्यैदम्' (सू १५०० ) इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः, 'प्राणिरजतादिभ्योऽञ्' ( सू १५३२) इत्यनि प्राप्ते । समूहेऽप्यणि प्राप्ते । एका. किनोऽपि परितः पौरुषेयवृता इव' इति माघः स. २-४ । तेन कृते ग्रन्थेऽणि प्राप्ते अप्रन्थे तु प्रासादादाव प्राप्त एवेति विवेकः । (१६७३) माणवचरकाभ्यां खज जनशब्दादिति शेषः । अत्र व्याख्यानमेव शरणम् । विश्वजनीयमिति । विश्वस्य जनो विश्वजनः साधारणो वैद्यादिः । विश्वो जनो यस्येति बहुव्रीहिर्वा । तस्मै हितमिति विग्रहः । पञ्चजनीनमिति । ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णाः रथकारजातिश्चेत्येते पञ्च जनाः । तेभ्यो हितमिति विग्रहः । सर्वजनाठञ् खश्चेति । वक्तव्य इति शेषः । 'समानाधिकरणादिति वक्तव्यम्' इति वार्तिकं भाष्ये स्थितम् । महाजनानिति । वक्तव्य इति शेषः । विश्वजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपद. स्योदाहरति-मातृभोगीण इति । मातृभोगाय हित इत्यर्थः । आचार्यादिति । आचार्य: शब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाभावो वाच्य इत्यर्थः । नच असमानपदस्थ. त्वादेवात्र णत्वस्याप्रसक्तेस्तनिषेधो व्यर्थ इति वाच्यम् , मातृभोगीणादौ णत्वज्ञा. पनार्थत्वात् । सर्वपुरुषाभ्यां णढो। सर्व, पुरुष आभ्यां चतुर्थ्यन्ताभ्यां क्रमात् णढो स्तः हितमित्यर्थे इत्यर्थः । सर्वाण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् । पुरुषाद्वधेति । वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ् स्यात् , न हिता) इत्यर्थः । ननु तेन कृतमिति समुदायस्य असुबन्तत्वात् कथं समासे निवेश इत्यत आह-भाष्येति । अणि प्राप्ते इति । अनेन ढजिति शेषः। प्राणीति । रजतादिस्वादजि प्राप्ते अनेन ढजित्यर्थः । समूहेऽप्यणि प्राप्ते इति । पुरुषाणां समूहः इत्यर्थे 'तस्य समूहः' इत्यणि प्राप्ते अनेन ढजित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहवृता इवेत्यर्थः । परितः आदर्शप्रतिफलनादिति भावः । तेन कृते इति । पुरुषेण कृतो ग्रन्थ इत्यर्थे कृते ग्रन्थे इत्यणि प्राप्ते, पुरुषेण कृतः प्रासाद इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढजित्यर्थः। For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy