SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Gog Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ अपत्याधिकार वाच्यम्' ( वा ४२१५ ) । हितनाम्नोऽपत्यं हैतनाम: - हैतनामनः । (११५८ ) ब्राह्मो जातौ ६ |४| १७१ ॥ योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते ऽनपत्येऽणि ब्राह्मं हविः । ततो जातौ । अपत्ये जातावणि ब्रह्मणटिलोपो न स्यात् । ब्रह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् । ब्राह्मी ओषधिः । ( ११५६ ) श्रौक्षमन. पत्ये ६|४|१७३॥ अनि टिलोपो निपात्यते । औक्षम् पदम् । अनपत्ये किम् । उक्ष्णोऽपत्यमौक्ष्णः । ( ११६० ) पूर्वहन्धृतराशामणि ६ । ४ । १३५ ॥ षपूर्वो योऽन् तस्य हनादेश्च भस्यातो कोपोऽणि । औक्ष्णः । ताक्ष्णः । प्रणध्नः । धृतरानोऽपत्यं धार्तराज्ञः । षपूर्व- इति किम् । साम्नोऽपस्य सामनः । अनि किम् । क्षण्यः । (११६१) क्षत्त्राद्धः ४|४|१३८ ॥ क्षस्त्रियः । जातौ इत्येव । क्षात्र प्रतिषेध इति शेषः । ब्राह्मो जाती । ब्रह्मन्दशब्दादपत्ये अणि 'न मपूर्वोऽपत्ये' इति प्रकृतिभावनिषेधो जातवेवेत्यर्थः फलति । तथा सति ब्रह्मणोऽपत्यं ब्राह्मण इति जातिविशेषे न सिध्येत्, 'न मपूर्वः" इति प्रकृतिभावनिषेधे सति 'नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात् । किञ्च ब्रह्मा देवता अस्य ब्राह्मं हविरिति न सिध्येत्, न मपूर्व इति प्रकृतिभाव: निषेधस्य जातावेवेति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपा सम्भवात् । अत आह- योगविभाग इति । ब्राह्मः इत्येकं सूत्रम् । तत्र 'इनण्यनपत्ये' इत्यतः अनपत्येs णीत्यनुवर्तते । तदाह-- ब्राह्म इति निपात्यते अनपत्येऽणीति । तथाच ब्रह्मन्शब्दादनपयेsणि अनिति प्रकृतिभावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति- ब्राह्म हविरिति । ब्रह्मा देवता अस्येति विग्रहः । 'सास्य देवता' इत्यण् । ततो जाताविति । ततः ब्राह्म इति सूत्रात्पृथगेव जाताविति सूत्रं कर्तव्यमित्यर्थः । इह 'न मपूर्वोऽपत्येऽवर्मणः इति सूत्रादपत्ये इति 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति चानुवर्तते । तदाह - प्रपस्ये जाताविति । ब्राह्मण इति । ब्रह्मणः सकाशात्सज्यतीयायां भार्यायामुत्पन्न इत्यर्थः । योगविभागस्त्वयं भाष्ये स्पष्टः । श्रौक्षम्। शेषपूरणेन सूत्रं व्याचष्टे - अणि टिलोपो निपात्यते इति । 'अनू' इति प्रकृतिभावापवाद इति भावः । श्रक्षमिति । टिलोपे रूपम् । श्रौक्ष्ण इति । अपत्येऽणि टिलोपाभावे अल्लोप इति भावः । ननु प्रकृतिभावादल्लोपो न स्यादत आह- पूर्वहन् । 'अल्लोपोऽनः' इत्यनुवर्तते । भस्येत्यधिकृतम् । तदाह-- षपूर्व इति । तादग इति । 'तक्ष्णोऽण उपसङ्ख्यानम्' इति कारिलक्षणण्यस्यापवादोऽण् । ताक्षण्य इति । 'सेनान्तलक्षण तारिभ्यश्च' इति ण्यः । I . क्षत्त्रादधः । अपत्ये इति शेषः । क्षत्रिय इति । घस्य इयादेशे 'यस्मेति च' इत्या For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy