SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ भूमिका | चरणतो लब्धनिखिलानवद्यविद्याविभूषितनुः श्रष्टादशशताब्द्यां स्वजनुषा दक्षिणदेशं सम्भूषयन् व्यराजतेति प्रतीयते । यद्यपि बालमनोरमा बालमनोरमासहितानेकाष्टीकाच इतस्ततोऽन्यत्र प्रकाशिता वर्तन्ते, तथापि गोलोकवासि-श्रेष्ठिवर हरिदासगुप्तात्मज - श्रीजयकृष्णदास श्रेष्ठिमहोदय वंशवदैरस्माभिः विद्यार्थिनां सौकर्याय तेषामर्थाश्यं स्मारं स्मारं बालमनोरमाटीकयैव सर्वव्याख्यानस्य गतार्थत्वात् ग्रन्थविस्तरभयादु मूल्यबाहुल्याच्च अन्यट्टीकाबाहुल्यं विहाय छात्राणां व्युत्पत्तिवैचित्रः याय लेखनप्रति पादनादिकलाकौशल्याय अनायास परीक्षामहार्णवनरणाय ग्रन्थान्ते काशिकराजकीय संस्कृत पाठशालाध्यापकव्याकरणाचार्यपण्डितनेने गोपालशास्त्रिकृत रूप लेखन - पङ्किलेखन प्रकाराख्य परिशिष्टद्वयेन संयोज्य अद्ययावन्मुद्रितासु सिद्धान्तकौमुदीषु बालमनोरमासु च बह्नयोऽशुद्धयः पाठभ्रंशादिभ्युदयश्चावलोकृताः, तावानेकग्रन्थावलोकनेन स्वव्युत्पत्या ग्रन्थलापनेन च परमपरिश्रमेण दूरीकृत्य प्रयोगसूच्यादिपरिशिष्टेन प्रकरण - सूत्र - वार्तिकाद्यनुक्रमणिकया च सुसज्जितं मनोहराक्षराङ्कितं गुटकारूपमल्पमूल्यं शुद्धतमं संस्करणं यथामति सुसम्पादितम् । भत्र संशोधने पणशीकरोपाव्हपण्डितरामचन्द्रशास्त्रिभिः पं० श्रीरामचन्द्रभाव्याकरणाचार्येण च बहुतरं सहाय्यं प्रदत्तमतस्तेभ्योsah धन्यवादाः । reter दृष्टिदोषात्सीसकाक्षरयोजनादुभ्रमाद्वा काश्चन अशुद्वयः स्युः, ता गुणैकपक्षपातिनो विद्वांसः परिमार्जयन्तोन चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो विद्यमानोऽपि तच्चित्तानां प्रकाशते ॥ १ ॥ इत्युक्तिमनुसन्धाय मामनुगृह्णन्त्विति सम्प्रार्थयते । महा शिवरात्रिः संवत् १९९७ विदुषामनुचरःसदाशिवशास्त्री जोशी व्याकरणाचार्यः साहित्योपाध्यायश्च । For Private and Personal Use Only च
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy