SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् २७ ] बालमनोरमासहिता । गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः । ( १०६५ ) मत इञ् ४।१।६५॥ अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठयन्तादिष्स्यादपत्येऽर्थे । दाक्षिः । (१०६६) बाह्वादिभ्यश्च ४|१|१६|| बाहविः । श्रडुलोमिः । आकृतिगणोऽयम् । ( १०६७) सुधातुरकङ् च ४|१|६७॥ चादिन | सुधातुरपत्यं सौधातकिः । 'व्यासवरुडनिषादचण्डालविम्बानां चेति वक्तव्यम्' ( वा २६११ ) | ( १०४८ ) न य्वापदान्ताभ्यां पूर्वौ तु ताभ्यामैच् | ७|३|३॥ पदान्ताभ्यां यकारवका a ६८६ प्रयोजनं दर्शयति- त्रियामिति । पचमादियुवतीनां युवसम्ज्ञाविरहेण गोत्रत्वात् । 'एको गोत्रे' इति नियमाद्गार्गीत्येव भवति नतु गार्ग्यायणीति रूपमित्यर्थः । स्त्रीभन्ने यूनि गोत्रादेवेत्यर्थाश्रयणे तु युवसज्ञया गोत्रसञ्ज्ञाया बाधात् 'एको गोत्रे ' इत्यस्याप्रवृत्तेः प्रत्ययमाला स्यादिति भावः । • इञ् । प्रातिपदिकादित्यधिकृतम् अता विशेष्यते, तदन्तविधिः । तदाहदन्तं यत्प्रातिपदिकमिति । 'तस्यापत्यम्' इत्यनुवृत्तं 'समर्थानां प्रथमाद्वा' इति च । ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धम् । सुबन्तात्तद्धितो. त्यत्तिरिति सिद्धान्तात् सुबन्तादिति लभ्यते । सुप्चेहोपस्थितत्वात् षष्ठयेव विवक्षिता । तथाच षष्ठ्यन्तात्प्रातिपदिकादिति लभ्यते । यद्यपि प्रातिपदिकं न षष्ठयमतम् प्रत्यय ग्रहणपरिभाषया प्रकृतिप्रत्यय समुदायस्यैव लाभात् । तथापि प्रातिपदि कप्रकृतिक षष्ठ्यन्तादित्यर्थो विवक्षितः । सदाह - तत्प्रकृतिका स्पष्ठयन्तादिति । दाक्षिरिति । दक्षस्यापत्यमिति विग्रहः । इञ्, आदिवृद्धिः, 'यस्येति च' इत्यकारलोपः । 'प्रदी यतां दाशरथाय मैथिली' इति त्वार्षमिति 'तस्यापत्यम्' इत्यत्र निरूपितम् । प्रातिपदिकग्रहणाननुवृत्तौ तु अदन्तास्षष्ठयन्तादिति लभ्येत । तथाच दक्षयोरपत्यं दाक्षि"रिति न सिध्येदिति भावः । बाह्रादिभ्यश्च । अपत्ये इजिति शेषः । बाहविरिति । बाहुनीम कश्चिदृषिः, अथ 'ऋषयः' इत्यधिकृत्य बाहविर्गार्ग्यगौतमौ ' इत्याश्वलायनसूत्रे दर्शनात्। बाहोरपत्यमिति विग्रहः । इनि, ओर्गुणः । श्रौडलोमिरिति । उडुलोम्नोऽपस्थमिति विग्रहः । इजि 'नस्तद्धिते' इति टिलोपः । आदिवृद्धिः, अदन्तत्वाभावादप्राप्तिः । सुधातुरकङ् च । चादिनिति । सुधातृशब्दात्षष्ठ्यन्तादपत्येऽर्थे इम्प्रत्ययः, प्रकृतेर कडा देशइवेत्यर्थः । अकडो कार इत्, अकार उच्चारणार्थः । ङिच्चेत्यन्तादेशः । तदाह - सौधातकिरिति । व्यासेति । व्यास, वरुड, निषाद, चण्डाल, बिम्ब एभ्यश्च इम प्रकृतेरका देश इत्यर्थः । न वाभ्याम् | य् च वश्च य्वाविति विग्रहः । वकारादकार उच्चारणार्थः । बा० ४४ For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy