SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् २७] बालमनोरमासहिता। ६७ - यद्वा स्वद्वानसख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीति च । मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥' पितुरेवापत्यमिति पक्षे छुपगोस्तृतीये वाच्य औपगवादिस्यात् । चतुर्थे त्वजी. वज्ज्येष्ठे मृतवश्य वा औपगवेः फक् । इत्थं फगियोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः। पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽप्यण्णन्तादिनपि स्यात् । ततश्चतुर्थे फगिति फगिनोः पर. म्परायां शततमे गोत्रेऽष्टनवतेरनिष्प्रत्ययाः स्युः। अतो नियमार्थमिदं सूत्रम् । 'प्रसज्यते' इत्येतत्पदं पूर्वाधे परम्परेत्यनन्तरमपि सम्बध्यते । तत्र स्वं गोत्रं मूल. पुरुषोपरवपेक्षया यत्सख्याकं तदपेक्षया एकोनसङ्ख्याकानां अनिष्टप्रत्ययानां पर. म्परैवोक्तरीत्या प्रसज्येत । नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिध्यती. त्यर्थः । यद्वति । स्वं गोत्रं तत् मूलपुरुषोपरवपेक्षया यत्सङ्ख्याकं तदपेक्षया न्यूनसङ्ख्याकप्रकृतिभ्यस्तावतां प्रत्ययानामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्यत इत्यर्थः । ननु कथमिदं पक्षद्वयमित्यत आह-अपत्यमित्यादि मतभेदेनेत्यन्तम् । पुत्र एवापत्यमिति पक्षे प्रथमः पक्ष उन्मिपति । पुत्रपौत्रादिसाधारणोऽपत्यशब्द इति पक्षे तु द्वितीयः पक्ष उन्मिपतीति भावः। तद्धान्य इति । तस्य उक्तप्रकाराभ्याम् अनिष्टोत्पादनस्य हानिः निवृत्तिः, तदर्थमिदमित्यर्थः। तथोत्तरमिति । 'गोत्राचून्यस्त्रियाम्। इत्युत्तरसूत्रमपि तथा योज्यमित्यर्थः । तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टं प्रपञ्चयतिपितुरेवेत्यादिना। औपगवादिन स्यादिति । 'अत इञ्' इत्यनेनेति शेषः। औपगवादेव इञ् स्यात् , न तु उपगोरणित्यर्थः, तृतीयस्य उपगुं प्रत्यपत्यत्वाभावादिति भावः । चतुथें त्वित्यतः पूर्वम् उपगोरिति शेषः । अजीवज्ज्येष्ठे इति । जीवन् ज्येष्ठो यस्येति विग्रहः । जीवति तु ज्येष्ठे चतुर्थस्य 'भ्रातरि च ज्यायसि' इति युवसनया गोत्रत्वं बाध्येतेति भावः। मृतवंश्ये इति । मृतः वंश्यो यस्येति विग्रहः । वंश्ये जीवति त 'जीवति तु वंश्ये युवा' इति युवसज्ञया गोत्रत्वं बाध्येतेति भावः। औपगवेः फगिति। 'यजिजोश' इत्यनेनेति शेषः । एकोनेति । एकोनशतात्प्रकृतिभ्यः एकोनशतं प्रत्यया अनिष्टाः स्युरित्यर्थः। अथापत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे अनिष्टं प्रपञ्च. यति-पितामहादीनामपीति । मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपक्षस्य निराकरणात् 'अपत्यं पौत्रप्रभृति' इति सूत्रस्वरसाच्च बोध्यम् । इष्टे सिद्धेऽपीति। तृतीयादीनामप्यपत्यत्वेन तत्र 'तस्यापत्यम्' इत्यणो निर्बाधत्वादिति भावः। तत इति । इजन्तादित्यर्थः । अष्टनवतेरिति । प्रकृतिभ्यः इति शेषः । अनिष्टप्रत्ययाः स्युरिति । अष्टनवति For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy