SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [समासाश्रयविधि गर्गाणां भगिनी गर्गभगिनी। अत एव नुम्प्रहणं कृतम् । अगस्य नुम्विधानात्त. अतो हि नुम् । न तूत्तरपदस्य । किञ्च 'प्रहिण्वन्' इत्यादौ हिवेमो णस्वार्थमपि नुम्ग्रहणम् । प्रेन्वनम् इत्यादौ तु क्षुभ्नादित्वान्न । 'युवादेन' ( वा ४९९९ )। रम्ययूना। परिपक्कानि । 'एकाजुत्तरपदे णः' (सू ३०७)। नित्यम् इत्युक्तम् । णेऽपि तदन्तम् ईकार एव, नतु नकारः अतो न तस्येदं पाक्षिकं गत्वमिति भावः । प्रातिपदिकल्योत्तरपदत्वविशेषणं सूत्रकारस्य सम्मतमित्याह-अत एवेति । प्रातिपदिकस्य उत्तरपदत्वविशेषणादेव सूत्राकारेण कृतं नुम्ग्रहणमर्थवत् , अन्यथा तदनर्थकमित्यर्थः । कुत इत्यत आह-अगस्येति । 'नपुंसकस्य झलच" इति नुम्विधौ अङ्गस्येत्यनुवृत्तम् । तथाच झलन्तस्याजन्तस्य चाङ्गस्य क्लीबस्य नुम् स्यात् सर्वना. मस्थाने इत्यर्थो लभ्यते । माषवापाणीत्यत्र तु सर्वनामस्थान प्रति माषवापशब्दोऽ गम् । तस्य माषवापशब्दस्य विहितो नुमागमस्तदवयव एव भवति, नतु उत्तरपदभूतवापशब्दस्यैवावयवः । तथाच उत्तरपदभूतप्रातिपदिकान्तत्वाभावात् 'प्रातिपदि. कान्त' इत्यनेन णत्वविकल्पस्याप्राप्तौ नुम्ग्रहणम् । प्रातिपदिकस्य उत्तरपदत्वविशेषणाभावे तु माषवापशब्दान्तावयवस्य नुमः माषवापेति प्रातिपदिकान्तावयवत्वस्य सत्त्वात् 'प्रातिपदिकान्त' इत्येव सिद्धे नुम्ग्रहणं व्यर्थ स्यादित्यर्थः। तदेवं प्रातिप. दिकस्य उत्तरपदत्वविशेषणे नुम्ग्रहणं लिङ्गामिति स्थितम् ।। वस्तुतस्तु नेदं लिङ्गमित्याह-किंच प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहण. मिति । किंचेति विशेषप्रदर्शने । 'हवि प्रीणने' भ्वादिः, इदित्त्वात् नुम् , लटः शत्रा. देशः । माषवापाणीत्यत्र नुमो नस्य प्रातिपदिकान्तत्वेऽपि प्रहिण्वन्शब्दे नुमो नस्य प्रातिपदिकान्तत्वाभावात् 'प्रातिपदिकान्त' इत्यनेन णत्वविकल्पस्याप्राप्तेस्तदर्थ नु. म्ग्रहणमावश्यकम् । अतः उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुम्ग्रहणं लिङ्ग स्यात् । तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः। ननु माषवापिणावित्यत्र वापिन् इति प्रातिपदिकस्य कथमुत्तरपदत्वम् 'गतिकारकोपपदानां कृभिः सह समा. सवचनम् इति सुबुत्पत्तेः प्रागेव समासप्रवृत्तेरिति चेत् , न-उत्तरपदशब्दस्य समा. सचरमावयवे रूढत्वादित्यलम् । ननु 'इवि व्याप्तौ' इदित्त्वान्नुम् । ल्युटि अना. देशः। प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह-प्रेन्वनमिति । युवादेर्नेति । उक्तणत्वविकल्प इति शेषः । वार्तिकमिदम् । रम्ययूनेति । रम्यश्चासौ युवा चेति विग्रहः । प्रातिपदिकान्तनकारत्वात्प्राप्तिः । परिपकानीति । इह नुमो नका. रस्य 'प्रातिपदिकान्त' इति विकल्प बाधित्वा 'कुमति च' इति नित्यं णत्वं प्राप्तम् । तदिह युवादित्वानिषिध्यते । एकाजुत्तरपदे णः। अजन्तस्त्रीलिङ्गे पुन शब्दनिरूपणे For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy