SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 989 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ बहुव्रीहिसमास १२६॥ आभ्यां परयोजनुशब्दयोर्जुरादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः । स्वञ्जुः । (८६६) ऊर्ध्वाद्विभाषा ५|४ | १३०॥ ऊर्ध्वजुः । कर्ध्वजानुः । (८७०) धनुषा ५|४| १३२ || धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । द्विधन्वा । शार्ङ्गधन्वा (८१) वा सज्ञायाम् ५|४|१३३ ॥ शतधन्वा -- शतधनुः । (६७२) जायाया निङ् ४|४|१३४ ॥ जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् । (८७३) लोपो व्योर्वलि ६ |१|६६ ॥ वकारयकारयोर्लोपः स्याद्वलि । पुंवद्भावः । दुबतिजया अस्य युवजानिः । ( ८७४) गन्धस्येदुत्पूतिसुसुरभिभ्यः ५।४। 1 ति । उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः । उभयोऽन्यत्रेति नित्यमयचि प्राप्ते निपातनेन विकल्प्यते । कर्मव्यतिहाराभावेऽपि दीर्घश्च । प्रसंभ्यां । जानुशब्दयोरिति । प्र सम् इति पूर्वपदद्वित्वात उत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम् । जानुन इत्युक्ते तु 'प्रत्ययः, परश्च' इत्यधिकारात् पञ्चम्यन्तत्वसम्भवात् ज्ञोः प्रत्ययत्वं च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिदें. शः । तदाह-— शुरादेश इति । प्रशुरिति । 'प्रादिभ्यो धातुजस्य' इति समासः । सशुरिति । सङ्गते जानुनी यस्येति विग्रहः । ऊर्ध्वाद्विभाषा । ऊर्ध्वशब्दात् परो यो जानुशब्दः तस्य ज्ञुरादेशो वा स्यात् । बहुव्रीहावित्यर्थः । ऊर्ध्वशुरिति । ऊध्वें 'जानुनी यस्येति विग्रहः । धनुषश्च । 'ऊधसोऽनङ्' इति पूर्वसूत्रं स्त्रीप्रत्ययाधिकारे व्याख्यातम् । तस्मादन ङित्यनुवर्तते । तदाह - अनङादेशइति । ( डित्वादन्तादेशः । ' प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि ) ङित्त्वादन्तादेश इति भावः । द्विधन्वेति । द्वे धनुषी यस्येति विग्रहः । समासे द्विधनुश्शब्दे सकारस्य अनङादेशः । डकार इत । अकार उच्चारणार्थः । उकारस्य यणिति भावः । शार्ङ्गधन्वेति । शृङ्गस्येदं शार्ङ्ग 'तस्येदम्' इत्यण, तत् धनुर्यस्येति विग्रहः । समासे शार्ङ्गधनुशब्दे सकारस्यानङ, ङकार इत्, अकार उच्चारणार्थः, उकारस्य यणिति भावः । महिम्नस्तवे 'स्वलावण्याशं - साधृतधनुषम्' इति प्रयोगस्त्वार्थः । वा सज्ञायाम् । 'धनुषश्च' इत्युक्तः अनङ्सज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपा - ख्याने प्रसिद्धः । 1 जायाया निङ् । आदेश इति । 'प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि हित्वादन्तादेशोऽयमिति भावः । लोपो व्योर्वलि । व्य् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । तदाहवकारयकारयोरिति । पुंवद्भाव इति । 'स्त्रियाः पुंवत्' इत्यनेनेति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निड् । डकार इत्, 'लोपो व्योः' इति यकारलोपः । युवतिशब्दस्य वत्त्वात् तिप्रत्ययस्य निवृत्तिः । नलोप इति भावः । गन्धस्येदुत् । For Private and Personal Use Only motote
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy