________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३]
बालमनोरमासहिता।
५१
-
-
'गोगुंती' इत्यत्र छकाराद्वा पूर्वभागे लोपो व्योः (सू० ८७३) इति लोपेन वकारः प्रश्लिप्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न (१)लुप्यत इति यावत् । (६४) धातोस्तन्निमित्तस्यैव ६१०॥ यादौ प्रत्यये परे इति, व् छन्दसीति च वकारः कुतो न श्रूयत इत्यत आह-लोपा व्योरिति लोपेनेति । अन्तर्हित इति शेषः। ननु प्रश्लेषे सति किमायातमित्यत आह--तेनेति । वान्तो योति सूत्रे वकारात् प्राक् व इति प्रश्लिष्यमाणं वान्तस्य विशेषणम् । विशेषणत्वाच्च तदन्तविधौ सति वकारान्त इति लभ्यते । तत्र वान्तस्य पुनर्वान्तत्ववचनसामर्थ्यात् श्रूयमाणवकारवान् वान्त आदेशः स्यादिति लभ्यते। गोर्यतावित्यत्र च इदमेव वान्तग्रहणमनुवर्तत इति तत्रापि श्रयमाणवकारवान् वान्तादेश इति लभ्यते । गोएँतावित्यत्र छकारात् प्राक् व इति प्रश्लिष्यमाणमपि पूर्वसूत्रादनुवृत्तस्य वान्त इत्यस्य विशेषणमिति । तदन्तविधिना वान्तत्वलाभे वान्तस्य पुनर्वान्तत्ववचनसाम
र्थ्यात् श्रूयमाणवकारवान् इति लभ्यत इत्यर्थः । नन्वेतावता गव्यूतिरित्यत्र अवादेशे वकारस्य श्रूयमाणत्वलाभेऽपि लोपशङ्का न परिहतेत्यत आह-वकारो न लुप्यत इति यावदिति । वकारस्य श्रूयमाणत्ववचनं वकारो न लुप्यत इत्यर्थे पर्यवसन्नमित्यर्थः, अश्रवणस्यैव लोपशब्दार्थत्वादिति भावः । यद्यपि वान्तो यीति सूत्रे वकारप्रश्लेषस्य तदुदाहरणे गव्यं नाव्यमित्यत्र प्रयोजनं नास्ति, तत्र भत्वेन पदत्वस्य बाधेन उक्तलोपस्याप्राप्तः । लव्यमित्यादौ स्वत एव पदत्वाभावाल्लोपस्याप्राप्तिः । गामिच्छति गव्यतीत्यत्र क्यजन्तेऽपि वकारस्य न लोपप्रसक्तिः, 'नः क्ये' इति नियमेन तत्र पदत्वाभावात् । तथापि गोर्यताविति वातिके तदनुवृत्तौ गव्यूतिरित्यत्र प्रयोजनमस्त्येव । एवं च वातिक एव तत्प्रश्लेष उचितः । एतस्मादेवास्वरसात् छकाराद्वेत्युतम् । वस्तुतस्तु वकारप्रश्लेषोऽनुपपन्नः, तथा सति सूत्रे वार्तिके च प्रश्लिष्टस्य तस्य श्रवणप्रसङ्गात्। नच लोपो व्योरिति लोपात्तदश्रवणमिति वाच्यम् , वकारलोपस्य उदाहरणाभावाद्वकारग्रहणं न कर्तव्यमिति लोपो व्योरिति सूत्रस्थभाष्यविरोधात् । अतोऽत्र प्रश्लिष्टवकारस्य छान्दस एव लोपो वर्णनीयः । प्रक्रियाप्रकाशे तु संज्ञापूर्वको विधिरनित्य इति वचनात् गव्यूतिरित्यत्र न वकारलोप इत्युक्तम् । अन्ये तु 'इको गुणवृद्धी इति सूत्रे अतो लान्तस्येत्यत्र लुप्तनिर्दिष्टो वकार इति भाष्यप्रामाण्यात् क्वचि. दस्ति वकारलोप इत्याहुः ।
ननु ओयते औयत इत्यत्रापि ओकारस्य औकारस्य च वान्तो यीति वान्तादेशः स्यादित्याशङ्कय वान्तो यीति सूत्रं नियमयति-धातोस्तन्निमित्तस्यैव । एच इति, वान्तो
(१) वार्तिकेन लोपाभावोऽपि निपात्यते । “बाधकान्येव निपातनानि' इति सर्वनामसंशा. 'सूत्रे भाष्ये स्पष्टम् ।
For Private and Personal Use Only