SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १९ ] बालमनोरमासहिता। ५७३ - सुभगा दुर्भगा भक्तिः सचिवा स्वसा कान्ता क्षान्ता समा चपला दुहिता वामा अबला तनया। 'सामान्ये नपुंसकम्' दृढं भक्तिर्यस्य सः दृढभक्तिः। स्त्रीत्वविव. क्षायां तु दृढाभक्तिः। (३६) तसिलादिष्वाकृत्वसुचः ६॥३॥३५॥ तसिलादिषु कृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्याप्त्यतिव्याप्तिपरिहाराय । 'तसौ' ( वा ३९१८ )। 'तरप्ततमपौ' (वा ३९१९)। 'चरट्जातीयरौ' (वा ३९२० )। 'कल्पन्देशीयरौ' ( वा ३९२१)। 'रूप. प्पाशपोः ( वा ३९२२ )। 'थाल्' (वा ३९२३) । 'तिल्थ्यनौ' (वा ३९२५)। बहीषु बहुत्र । बहुतः । दर्शनीयतरा दर्शनीयतमा। 'घरूप'-(सू षेधस्य प्रयोजनं पृच्छति-प्रप्रियादिषु किमिति । कल्याणीप्रिय इति । कल्याणी प्रिया यस्येति विग्रहः। प्रियादिगणं पठति-प्रिया मनोशेत्यादि । ननु भक्तिशब्दस्य प्रिया. दिषु पाठे दृढा भक्तिर्यस्य सः दृढभक्तिरित्यत्र कथं पुंवत्वमित्यत आह-सामान्ये नपुंसकमिति । आश्रित्येति शेषः। दृढ़मिति । पदसंस्कारपक्षे सामान्यपरत्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः। ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंस. कत्वं नापैति, लिङ्गविशेषस्याविवक्षितत्वात् , वेदाः प्रमाणमितिवत्। अत्र चार्थे पस्पशाह्निकभाष्ये 'शक्यं च अनेनाश्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' इति प्रयोगो लिङ्गम् । नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह-स्त्रीत्वविवक्षायां विति । वाक्यसंस्कारपक्षाविशेष्यानुसारेण स्त्रीत्वप्रतीतेनियमादिति भावः । तसिला. दिष्वाकृत्वसुचः। स्त्रियाः पुंवत्' इत्यनुवर्तते । आ कृत्वसुच इत्याङ् अभिविध्यर्थकः, तमभिव्याप्येत्यर्थः। तदाह-तसिलादिषु कृत्वसुजन्तेष्विति । 'पञ्चम्यास्तसिल' इत्यारभ्य 'सहन्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्येतत्पर्यन्तसूत्रविहितेष्वित्यर्थः । उत्तरपदपरकत्वाभावात् स्त्रिया वदित्यप्राप्तौ वचनमिदम् ।। ननु तिल्थ्यन्शसां कृत्वसुचः परत्रैव पागत् तसिलादिष्वनन्तर्भावात्तेषु परेषु वृकतिः अजथ्या बहुशः इत्यत्र पुंवत्त्वं न स्यादित्यव्याप्तिः । ईषदसमासौ कल्पब्देश्यदेशीयरः' इति देश्यस्य षष्ट्या रूप्य च' इति रूप्यस्य च तसिलादिष्वन्तर्भावात् तयोः परतः पट्वीदेश्येत्यत्र च शुभ्रारूप्येत्यत्र च पुंवत्वं स्यादित्यतिव्याप्ति. रित्यत आह-परिगणनमिति । अव्याप्त्यतिव्याप्तीति । इष्टस्थले अप्रवृत्तिरव्यामिः । अनिष्टस्थले प्रवृत्तिः अतिव्याप्तिः। परिगणनप्रकारमाह-वंतसावित्यादिना। बह्वीषु बहुत्रेति । बह्वीवित्यर्थे बह्वीशब्दात् 'सप्तम्यास्त्रल्' इति अलि पुंवत्त्वे डोषो नि. वृत्ता बहुत्रेति रूपमित्यर्थः । बहुत इति । 'पञ्चम्यास्तसिल्' इति बह्वीशब्दात् तसिल्, पुंवत्त्वात् ङीषो निवृत्तिरिति भावः । दर्शनीयतरेति । अनयोरियमतिशयेन दर्शनीये. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy